Monday, July 29, 2019

Mann ki bhaat in Sanskrit 28-07-19



मान्याः!
नमोनमः | 'मनोगतम्-२.०२' [मन की बात] इत्यस्य पठन-प्रकाशन-प्रचारार्थं सञ्चिका-चतुष्टयं [संस्कृतम्-words+pdf+श्रव्य+हिन्दी(words)] अत्रभवतां सौविध्यार्थं सम्प्रेष्यते | सादरम् ... बलदेवानन्द-सागरः
 ...+91-9810562277    

 

 'मनोगतम्' –२.०२ ['मनकीबात'] - २.०२प्रसारण-तिथिः: २८-७-२०१९

 

 -संस्कृत-भाषान्तर-कर्ता -डॉ.बलदेवानन्द-सागरः

मम प्रियाः देशवासिनः, नमस्कारः| 'मन की बात'-इति प्रसारणम्,यथा सदैव, मम पक्षतः अपि, भवतां पक्षतः अपि प्रतीक्ष्यते | अस्मिन् क्रमेsपि अहम् अपश्यम् यत् अनेकानि त्राणि,टिप्पण्ण्यः, दूरभाषाकारणाः अवाप्ताः अनेकाः कथाः, बहवः परामर्शाः,प्रेरणाश्च सन्ति प्रायेण प्रत्येकमपि जनः किञ्चित् किञ्चिदपि कर्तुकामः कथयितुकामः चापि वर्तते को दृढभावः अनुभूयते, एतेषु च बहु किञ्चित् अस्ति, यद्धि अहं समावेशयितुं समीहे, परञ्च, समयसीमास्ति,अतःसर्वं समावेशयितुमपि नैव शक्नोमि | एवं प्रतीयते यत् भवन्तः नितरां मां परीक्षन्ते | तथापि,भवतामेव सम्वादान्, अमुना 'मन की बात'-सूत्रेणपुनरेकवारं भवद्भ्यः सम्विभाजयितुं वाञ्छामि |

भवन्तः नूनं स्मरन्तः स्युः यत् विगते प्रसारणे अहं प्रेमचंद-वर्यस्य कथानां पुस्तकं र्चितवान्, तथा च वयं निर्णीतवन्तः यत् यः कश्चन अपि पुस्तकं पठेत्, सः तद्विषये NarendraModi App-इत्यस्य माध्यमेन सर्वैः सम्विभाजयेत् | मया दृष्टं यत् जनानां बहुसंख्यकेन अनेक-प्रकारकाणां पुस्तकानां सूचनाः सम्विभाजिताः | मह्यमरोचतयत्जनाः विज्ञान-प्रविधि-नवाचार-इतिहास-संस्कृति-व्यापार-जीवनचरित्र-सदृशान् नैकविध-विषयान् आधृत्य लिखितानि पुस्तकानि, तत्सम्बद्धान् विषयान् च चर्चन्ते | केचन जनास्तु माम् एतदपि परामृशन् यदहं केषाञ्चित् अपरेषामपि पुस्तकानां विषये सम्वदेयम् | अस्तु, नूनमहम् इतरेषामपिपुस्तकानांविषये भवद्भिः सम्वदिष्यामि| परञ्च, तथ्यमेकन्तु स्वीकर्तव्यमेव यत् साम्प्रतमहं दायित्वाधिक्यात् नाधिकानि पुस्तकानि पठितुं पारयामि | तथापि अन्यतमः लाभस्तु अवश्यमेव सञ्जातः यत् भवन्तः यत् लिखित्वा प्रेषयन्ति, तेन बहूनां पुस्तकानांविषये अवगमनावसरः नूनं लभ्यते | तथा च, यः विगतैक-मासीयः अनुभवोsस्ति, सोऽपि अस्माभिः अग्रेसारणीयः - इति मह्यं प्रतीयते | कथं न वयं NarendraModi App-इत्यत्र permanent book's corner-इति स्थायिनं पुस्तक-स्तम्भं स्थापयेम, तथा च, यदापि वयं नूतनानि पुस्तकानि पठेम, तद्विषये तत्र लिखेम, चर्चयेम, एवं हि, भवन्तः अस्मदीयस्य अस्य पुस्तक-स्तम्भस्य कृते, किमपि सुन्दरं नामापि परामर्शयितुं शक्नुवन्ति | वाञ्छामि यत् book's corner-इत्ययं पुस्तक-स्तम्भः पाठकानां लेखकानां च कृते, सक्रिय-ञ्चत्वेन प्रतिष्ठेत्|  भवन्तः पठन्तो लिखन्तो भवेयुः,'मन की बात'-प्रसारणस्य च सर्वैरपि सहभागिभिरपि सम्विभाजयन्तः स्युः |

    मित्राणि, एवं प्रतीयते यत् जल-संरक्षणमिति - 'मन की बात'-प्रसारणे अहं सन्दर्भितवान्, परन्तु साम्प्रतमहम् अनुभवामि यत् मम सन्दर्भात् प्रागपि जल-संरक्षणं हि भवतां सामान्यजनानां च हृदय-स्पर्शी विषयः आसीत्| अहञ्च अनुभवामि यत् विषयोऽयं एतेषु दिनेषु भारतीयानां हृदयानि आन्दोलयति | जलसंरक्षणविषये, अशेष-देशे अनेक-विधाः, प्रभाविनः प्रयासाः प्रचाल्यन्ते | जनाः पारम्परिक-पद्धति-विषयिणीः सूचनास्तु सम्विभाजितवन्तः |  सञ्चार-माध्यमानि जल-संरक्षण-सम्बद्धानि अनेकानि innovative campaign- इति नवाचारयुतानि अभियानानि आरभन्त | र्वकारः स्याद्वा,NGOs-इति प्रशासनेतराणि सङ्घटनानि स्युः – युद्धस्तरेण किञ्चित् किञ्चिदपि कुर्वन्त्येव | सामूहिकतायाः सामर्थ्यमवलोक्य, मानसम् अतितरां प्रसीदतितराम्, सुबहु-संतोषमनुभवामि | यथा, झारखण्डे रांचीतः किञ्चिदेव दूरे, ओरमांझी-प्रखण्डस्य आराकेरम-ग्रामे,तत्रत्याः ग्रामीणाः जल-प्रबन्धविषये यं धैर्यं प्रदर्शितवन्तः, सः सर्वेषामपि कृते उदाहरणत्वेन सिद्धः | ग्रामीणाः, श्रमदानं कृत्वा पर्वतात् प्रवहन्तं निर्झरम्, निश्चित-प्रवाहक्रमेण संयोजितवन्तः| तदपि शुद्ध-ग्रामीण-प्रकारेण | अमुना कार्येण, न केवलं मृदः अपक्षरणम्, शस्यस्य अपक्षयश्च अवरुद्धौ,परञ्च, क्षेत्राण्यपि जलं प्राप्नुवन्ति | ग्रामीणानां श्रमदानमिदं, सम्प्रति सम्पूर्णस्यापि ग्रामस्य कृते जीवन-दानाद् न्यूनं नास्ति | भवन्तः सर्वे एतदपि ज्ञात्वा अतितरां प्रसन्नताम् अनुभविष्यन्ति यत् उत्तर-पूर्वीयं                             

अतिरमणीयं राज्यं -मेघालयः, देशस्य प्रप्रथमं तादृशं राज्यं सञ्जातम्, येन स्वीया जल-नीतिः सज्जीकृता| अहं तत्रत्यं प्रशासनम् अभिनन्दामि|

हरियाणा-राज्ये, तेषां शस्यानां सम्वर्धनं प्रोत्साह्यते, येभ्यः न्यून-जलावश्यकताः भवन्ति, तथा च, कृषकाणामपि काचिद् हानिः नैव भवति | अहं हरियाणा-र्वकारं विशेषेण वर्धापयामि यत्तेन कृषकैः सम्भाष्य, तान् परम्परागत-कृषिकर्मतः अपसार्य,न्यून-जलापेक्षि-शस्यानां कृते प्रेरितवान् |

    साम्प्रतन्तु उत्सवानां कालः समुपागतः | उत्सवानामवसरेस्मिन् अनेकाः मेलाः अपि आयोज्यन्ते | जल-संरक्षणार्थं कथन्न एतासां मेलानामपि उपयोगं कुर्याम? मेलासु समाजस्य प्रत्येकमपि वर्गीयाः जनाः आयान्ति | एतासु मेलासु जल-संरक्षणस्य सन्देशं वयम् अतितरां प्रभावितया प्रसारयितुं शक्नुमः, प्रदर्शनीः आयोजयितुं पारयामः, वीथी-नाटकानि मञ्चयितुमर्हामः, उत्सवानाम् आयोजनावसरे वयं जलसंरक्षणस्य सन्देशम् अति-सरलतया प्रापयितुं शक्नुमः |

मित्राणि, जीवने कानिचित् वृत्तानि अस्मान् समुत्साहिनः कुर्वन्ति, तथा च, विशेषेण बालानाम् उपलब्धयः, तेषां कार्याणि, अस्मभ्यः नूतनाम् र्जां प्रददति, अत एव च, अद्य अहं, केषाञ्चन बालानां विषये, किमपि कथयितुं वाञ्छामि, एते बालाः सन्ति – निधिबाईपोटु-मोनीषजोशी-देवांशीरावत-तनुषजैन-हर्षदेवधरकर-अनंततिवारी-प्रीतिनाग-अथर्वदेशमुख-अरोन्यतेश-गांगुली-हृतिकअला-मंदेतिच|

एतेषां विषये यत् किमपि कथयिष्यामि, तेन भवन्तः गौरवम् उत्साहञ्च अनुभविष्यन्ति | वयं सर्वेऽपि जानीमः यत् कर्कट-रोगः तादृशः ब्दः अस्ति यस्मात्  सम्पूर्णः अपि संसारः बिभेति | एवं प्रतीयते यत्, मृत्युः द्वारि तिष्ठति, परञ्चएते सर्वेऽपि दश बालाः, स्वीय-जीवन-संघर्षे, न मात्रं कर्कट-रोगं, कर्कट-सदृशान् घातक-रोगान् पराजितवन्तः, अथ च, स्वीय-कार्यैः अशेष-जगति भारतस्य कीर्तिं विवर्धितवन्तः | क्रीडा-स्पर्धासु प्रायेण अवलोकयामः यत् क्रीडकः स्पर्धा-विजयस्य पदक-प्राप्तेः चानन्तरं विजेतृरूपेण प्रतिष्ठाम् अवाप्नोति,किन्तु दुर्लभोऽयं अवसरः अवर्तत, यत्रैते बालाः, क्रीडा-स्पर्धासु सहभागित्वात् प्रागेव विजेतारः आसन्, तथा च, जीवन-युद्धस्य विजेतारः|

वस्तुतः, मासेस्मिन् Moscow-नगरे World Children's winners games- इति विश्व-बाल-विजेतृ-स्पर्धाः आयोजिताः | एषा तादृशी अद्भुता खेला-स्पर्धास्ति, यस्यां किशोराः कर्कट-रोग-मुक्ताः सन्तः अर्थात् ये बालाः जीवने कर्कट-रोगं प्रतिकुर्वन्तः विजेतारः संवृत्ताः, ते एव सहभागित्वं निर्वोढुमर्हन्ति | अस्यां स्पर्धायां लक्ष्यवेध-चतुरङ्ग-सन्तरण-धावन-पादकन्दुक-TableTennis-सदृश्यःस्पर्द्धाः आयोज्यन्ते |अस्मदीय-देशस्य एते सर्वेऽपि दश विजेतारः एतासु स्पर्धासु पदकानि प्राप्तवन्तः | एतेषु केचन क्रीडकास्तु एकाधिकासु स्पर्धासु पदकानि विजितवन्तः|

मम प्रियाः देशवासिनः, पूर्णतया विश्वसिमि यत् आकाशस्य परेण,न्तरिक्षे, भारतस्य सफलता-विषये, भवन्तः अवश्यमेव गौरवम् अनुभविष्यन्ति तदस्ति - चन्द्रयान-द्विकम् [Chandryaan-two]|राजस्थाने जोधपुरतः संजीव-हरीपुरा, कोलकातातः महेंद्रकुमार-डागा, तेलंगानातः पी.अरविन्द-रावः, इत्यनेके, अशेष-देशस्य भिन्न-भिन्न-भागेभ्यः, मांNarendraModi App-MyGov-चेत्यत्र लिखित्वा 'मन की बात'-प्रसारणे चन्द्रयान-द्विकस्य विषये र्चितुं साग्रहं निवेदितवन्तः |

वस्तुतः,न्तरिक्ष-दिशा ऊनविंशत्युत्तर-द्विसहस्र-तमं वर्षं भारतस्य कृते अतितरां सम्यगेव अवर्तत |अस्मदीयाः वैज्ञानिकाः,ऐषमः मार्च-मासे, A-Set-इति प्रक्षिप्तवन्तः | ततः परं चन्द्रयान-द्विकम् | निर्वाचन-व्यग्रता-कारणात् तदा A-Set-सदृशस्य महतः महत्वपूर्णस्य च वृत्तस्य चर्चा अधिकतरा नैव जाता| अपरत्र, वयं A-Set-प्रक्षेपास्रेण, केवलं मिनट्-त्रये एव, त्रिशतं-किलोमीटर-मितान्तराले दूरे वर्तमानम् उपग्रहम् आहत्य अवपातयितुं समर्थाः संवृत्ताः | जगति एतादृग्-उपलब्धिवत् भारतम्, साम्प्रतंचतुर्थ-देशत्वेन विराजते | धुना, मासेsस्मिन् द्वाविंशे दिनेअशेष-देशः, सगौरवम् अवालोकयत् यत् केन प्रकारेण  चन्द्रयान-द्विकं श्रीहरिकोटातः न्तरिक्षं प्रति निज-पद-क्षेपणं व्यदधात्| चन्द्रयान-द्विकस्य प्रक्षेपणस्य चित्राणि देशवासिनां कृते गौरवोत्साह-प्रसन्नता-सम्भरितानि सिद्धानि |

चन्द्रयान-द्विकमिति, कार्यक्रमोsयम् अनेकधा विशिष्टः अस्ति | एतद्धि चन्द्रमसः विषयकम् अस्मदीयम् अवगमनम् इतःपरमपि स्पष्टतरं विधास्यति| अनेन वयंचन्द्रमसःविषये विस्तरेण सूचनाः अवाप्स्यामः, परञ्च यदि भवन्तः मां पृच्छन्ति यत् चन्द्रयान-द्विकेन अहं कं बृहत्-शिक्षा-द्वयं प्राप्तवान्, तर्हि नूनं उत्तरिष्यामि यत् विश्वासः निर्भीकता चेतिबृहत्-शिक्षा-द्वयमहं प्राप्तवान्|स्वीय-प्रतिभा-क्षमता-विषये वयं नूनं विश्वस्ताः भवेम| वृत्तमिदं ज्ञात्वा भवन्तः प्रसन्नाः भविष्यन्ति यत् चन्द्रयान-द्विकं पूर्णतया भारतीय-शैल्या विनिर्मितम् | इदं सर्वात्मना भारतीयं वर्तते | पूर्णतया स्वदेशीयं कार्यम् | अमुना कार्येण पुनरेकवारं प्रमाणितं यत् नूतनेषु क्षेत्रेषु यदा किञ्चित् नवीनतया करणीयं निश्चेष्यते वा अभिनवोत्साहः भवेत्तदा, अस्माकं वैज्ञानिकाः सर्वोत्तमाः, विश्व-स्तरीयाः च सिध्यन्ति |

द्वितीयः, महत्वपूर्ण-पाठोस्ति यत् न केनापि व्यवधानेन अस्माभिः व्याकुलैः भाव्यम् |  यथा अस्माकंवैज्ञानिकाः, आभिलेख्ये काले, अहर्निशम् अनारतं च श्रमित्वा सर्वान् प्राविधिकान् विषयान् समाधाय चचन्द्रयान-द्विकं प्रक्षिप्तवन्तः, तद्धि स्व-प्रकारकम् अभूतपूर्वं वर्तते | वैज्ञानिकानाम् एषा महती तपस्या, समग्रेण अपि विश्वेन अवालोकि | नूनमस्माभिः विषयेsस्मिन् गौरवान्वितैः भाव्यम्, तथा च, सत्यपि व्यवधाने यानस्य गन्तव्यकालं न ते परिवर्तितवन्तः – वृत्तमिदमवश्यम् बहूनां कृते आश्चर्यकरं वर्तते | वयमपि निज-जीवने अस्थायीनि काठिन्यानि सम्मुखीकर्तुं विवशाः भवामः, परन्तु, सर्वदेदं स्मरणीयं यत् एतेषां प्रतीकारस्य सामर्थ्यमपि अस्मत्सु एव वर्तते | पूर्णतया आशासे यत् चन्द्रयान-द्विकमिति अभियानं देशस्य यूनः विज्ञान-नवाचारार्थं प्रेरयिष्यति | अन्ततोगत्वा, विज्ञानमेव विकासस्य मार्गोsस्ति | साम्प्रतं वयं, सौत्सुक्यं सेप्टेम्बर-मासं प्रतीक्षामहे यदा न्द्रमसः तले लैंडर विक्रमस्य रोवर प्रज्ञानस्य चावतरणं भविता |

अद्यतनस्य 'मन की बात'-प्रसारणस्य माध्यमेनाहं, देशस्य विद्यार्थि-मित्रैः, युव-सहकर्मिभिः च सार्धं रोचक-स्पर्धा-विषये सूचनामेकां सम्विभाजयितुमीहे, देशस्य च युवकान् युवतीश्च आमन्त्रयामि कस्मै प्रश्नोत्तरमञ्चाय | न्तरिक्ष-सम्बद्धाः जिज्ञासाः, भारतस्य अन्तरिक्ष-कार्यक्रमः, विज्ञानं प्रविधिश्च अस्याः प्रश्नोत्तर-स्पर्धायाः मुख्य-विषयौ भविष्यतः, उदाहरणार्थं,अन्तरिक्ष-यानस्य प्रक्षेपणार्थं किं किं कर्तव्यं भवति? उपग्रहः केन प्रकारेण परिमण्डले स्थाप्यते? उपग्रहेण च वयं कां कां सूचनां प्राप्नुमः?A-Set-इति किं करोति? अनेकानि वृत्तानि सन्ति | MyGov website-इत्यत्र, ओगस्ट-मासे प्रथमे दिनाङ्के,  स्पर्धा-विषयकः विस्तरः प्रकाशयिष्यते|

अहं युव-सहकर्मिणः, विद्यार्थिनश्च, अनुरुन्धे यत्ते अस्याः प्रश्नोत्तर-स्पर्धायाः सहभागिनो भवेयुः, निज-सहभागितया च स्पर्धामेनां रुचिरां, रुचिपूर्णां, स्मरणीयाञ्च कुर्युः | अहं विद्यालयान्, अभिभावकान्, उत्साहिनः आचार्यान्, शिक्षकान् च सविशेषं साग्रहञ्च निवेदयामि यत्ते नैजं विद्यालयं विजयिनं विधातुं सर्वात्मना प्रयतेरन् | अत्रात्मानं संयोजयितुं र्वान् अपि विद्यार्थिनः प्रोत्साहयेयुः, र्वाधिकञ्चात्ररोमाञ्च-वृत्तम् इदं वर्तते यत्, सर्वेषु अपि राज्येषु,र्वाधिकाङ्क-प्रापकान् विद्यार्थिनः, भारत-र्वकारः निज-व्ययेन श्रीहरिकोटा-स्थलं नेष्यति, ते च सेप्टेम्बर-मासे तस्य क्षणस्य साक्षिणः भवितारः यदा न्द्रयानम्, न्द्रसः तले अवतरत् भविता | एषा हि विजयिनां विद्यार्थिनां कृते निज-जीवनस्य ऐतिहासिकी घटना भविता, परञ्चैतदर्थं, भवद्भिः प्रश्नोत्तर-मञ्चे सहभागित्वं निर्वहणीयं, र्वाधिकाश्चाङ्काः अवाप्तव्याः, भवद्भिः च विजयिनैः भाव्यम् |

मित्राणि, ममैषः परामर्शः भवद्भ्यः नूनं रुचिकरः अभविष्यत् किं रुचिकरावसरोsस्ति न वा? तर्हि वयं प्रश्नोत्तर-मञ्चेसहभागित्वादानं नैव विस्मरेम, अधिकाधिकान् च खीन् अपि प्रेरयेयुः |  

 मम प्रियाः देशवासिनः, भवन्तः वृत्तमेकं निरीक्षितवन्तः स्युः |  अस्मदीयैः मनोगतैः स्वच्छताभियानं काले-काले गतिमत्तरं विहितं, एवंप्रकारेण च स्वच्छतायै विधीयमानाः प्रयासाः 'मनकीबात'- कार्यक्रमं सदैवप्रेरितवन्तः | पञ्च-वर्षेभ्यः प्राक् आरब्धा यात्रैषा साम्प्रतं नानाम् अधिसंख्यं सहभागितया, स्वच्छतायाः नवीनान्मानदण्डान्स्थापयति | एवं नास्ति यत् वयं स्वच्छताविषयिणीम् आदर्श-स्थितिं प्राप्तवन्तः, परन्तु येन प्रकारेण ODF-इति अनावृत-स्थलेषु मलत्यागादितः सार्वजनिक-स्थलेषु स्वच्छताभियाने या सफलतावाप्ता, सा त्रिंशदधिक-शतकोटि-देशवासिनां संकल्प-शक्तिरेवास्ति, परन्तु एतावता एव वयं नैव विरमाम | न्दोलनमिदं साम्प्रतं स्वच्छतातः सुन्दरतां प्रति अग्रेसृतम् | कतिपय-दिनेभ्यः प्रागेव अहं सञ्चार-माध्यमेषु श्रीयोगेश-सैनी-महोदयस्य तस्य सहकर्मि-वृन्दस्य च कथाम् अवलोकयन् आसम् | योगेशसैनी अभियन्तास्ति अमेरिका-देशीयां च स्वीयां वृत्तिं त्यक्त्वा मातुः भारत्याः सेवायै प्रत्यागतोsस्ति |कतिपय-दिनेभ्यः प्राक् असौ दिल्ली-प्रदेशं न केवलं स्वच्छं, अपितु सुन्दरं कर्तुं समाह्वानं स्व्यकरोत् | असौ स्वीय-वृन्देन साकं लोधी-उद्यानस्य अवकर-पिटकेभ्यः निज-कार्यम् आरभत | Street art- इति प्रतोली-कला-माध्यमेन, दिल्ल्याः अनेकाः वसतीः, रमणीय-चित्रकर्मभिः शोभनाः विहिताः | Over Bridge-इति उपरि-सेतु-विद्यालयीय-भित्तितः मलीन-वसति-पर्यन्तं, तेन स्वीय-कला-कौशलेन रञ्जयितुं आरब्धम्, ततः परं जनानां साहाय्यमपि लब्धम्, एकतश्च अयं क्रमः प्रावर्तत | भवन्तः नूनं स्मरन्ति वा यत् कुम्भ-मेलकावसरे तीर्थराजे प्रयागे केन प्रकारेण प्रतोली-कलाचित्रैः सज्जा कृतासीत् | अहं ज्ञातवान्, भ्रातः! योगेशसैनी, तस्य च सहकर्मि-वृन्दञ्च तत्रापि महतीं भूमिकां निर्व्यूढवन्तौ | ङ्गेषु रेखासु च न कश्चन ध्वनिः भवतु नाम, परन्तु एभिः विरचितैः चित्रैः यानि इन्द्रधनून्षि विनिर्मीयन्ते, तेषां सन्देशः सहस्राधिक-ब्देभ्योऽपि भूयान् प्रभावकारीसिध्यति,स्वच्छताभियानस्य च सुन्दरतायामपि वयम् एतानि वृत्तानि अनुभवामः | नितरामिदम् अस्माकं कृते आवश्यकं यत् Waste to wealth-इति अवकरतः समृद्धि-संरचनायाः संस्कृतिः अस्मदीये समाजे विकसेत् | एकतो वदेम चेत्, अस्माभिः अवकरतः ञ्च-निर्माणस्यदिशि, अग्रेसर्तव्यमस्ति |

मम प्रियाः देशवासिनः, विगतेषु दिनेषु,MyGov-इत्यत्र अहं रुचिरामेकां टिप्पणी- मपठम् | एषा टिप्पणीजम्मू-कश्मीरस्य शोपियां-वास्तव्येन भ्रात्रा मुहम्मद-असलमेन विहितासीत् |तेन लिखितं–"मन की बात'-कार्यक्रमस्य श्रवणं रोचतेतराम् | एतत् संसूचयन् प्रसीदामितरां यत् अहंस्वीय-राज्ये जम्मू-कश्मीरेCommunity-Mobilization-Programme - Back To Village-इति ग्रामं प्रति निवर्तनमिति सामुदायिक-प्रोत्साहन-कार्यक्रमाणाम् आयोजने सक्रिय-भूमिकां निर्व्यूढवान् |अस्य कार्यक्रमस्य आयोजनम्, जून-मासे अभवत् |अनुभवामि यत् एतादृशाः कार्यक्रमाः प्रति-त्रिमासं आयोजनीयाः |युगपदेव, कार्यक्रमस्य online monitoring-इति सद्यस्कः निरीक्षण-व्यवस्थापि स्यात् |मम विचारानुसारं, अयं हि स्व-प्रकारकः, तादृशः प्रप्रथमः कार्यक्रमः आसीत्, यस्मिन् जनाः र्वकारश्च साक्षात् म्वादम् अकुर्वन् |

भ्राता मुहम्मद-असलमः एनं सन्देशं मां प्रेषितवान् तञ्च ठित्वा'Back To Village' Programme-ग्रामं प्रति निवर्तनमितिकार्यक्रम-विषयिणी मम जिज्ञासा समेधिता यदा चाहं विषयेस्मिन् विस्तरेण ज्ञातवान्, अन्वभवञ्च यत्अशेष-देशेन वृतमिदं नूनम् अवगन्तव्यम् | कश्मीर-वास्तव्याः विकासस्य मुख्यधारया साकम् आत्मानं संयोजयितुं कियन्तः व्याकुलाः, कियन्तश्च उत्साहिनः सन्तीति अमुना कार्यक्रमेण अवगन्तुं शक्यते | अस्य कार्यक्रमस्या- न्तर्गतं, प्रथमवारं वरिष्ठाः अधिकारिणः साक्षात् ग्रामान् गतवन्तः | यान् अधिकारिणः पूर्वं ग्रामीणाः नैव मनागपि दृष्टवन्तः, ते स्वयं चलित्वा तेषां द्वाराणि यावत् आगतवन्तः येन हि विकास-कार्येषु अनुभूयमानाः बाधाः अवगताः स्युः, समस्यानां समाधानञ्च सम्भवेत् | कार्यक्रमोऽयं सप्ताह-पर्यन्तं प्रावर्तत, राज्यस्य च सर्वेष्वपि प्रायेण सार्ध-चतुःसहस्रेषु पंचायतेषु र्वकारस्याधिकारिणः ग्रामीणान् र्वकारीय-योजनानां कार्यक्रमाणां च विस्तृतां सूचनां प्रादुः| तैः एतदपि अवगतं यत् ते र्वकारीय-सेवानां लाभान् अवाप्नुवन्ति न वा | पंचायतानि केन-प्रकारेण दृढतराणि कर्तुं शक्यन्ते? तेषाम् आय-जातं केन प्रकारेण वर्धयितुं शक्यते? तेषां सेवाः सामान्य-मानवानां जीवने कं प्रभावम् उत्पादयितुं शक्नुवन्ति? ग्रामीणाः अपि मुक्त-मनसा निज-समस्याः अत्र न्यगदन् | साक्षरता-लिङ्गानुपात-स्वास्थ्य-स्वच्छता-जलसंरक्षण-विद्युत्-जल-बालिकाशिक्षा-वरिष्ठनागरिक-प्रश्नाः- इत्यादि-विविध-विषयाः र्चिताः|

    सखायः, एते कार्यक्रमाः र्वकारीया औपचारिकता एव नासीत्, यदेते अधिकारिणः आदिनं ग्रामं भ्रमित्वा प्रत्यागताः स्युः, परञ्च अस्मिन् क्रमे अधिकारिणः दिनद्वयं रात्रिमेकाञ्च यावत् पंचायते एव यापितवन्तः | एवं हि ते ग्रामे एव समय-यापनस्य अवसरं अलभन्त | प्रत्येकमपि जनान् मेलितुम् प्रायतत| प्रायेण प्रत्येकमपि संस्थानं यावत् गन्तुं प्रायतत| कार्यक्रममेनं रुचिकरं विधातुं अपराण्यपि कानिचिद् वस्तुनि समावेशितानि | 'क्रीड भारतम्' इत्यन्तर्गतं बालानां कृते क्रीडा-स्पर्धाः आयोजिताः | अपरतश्च Sports Kits-इति क्रीडोपकरण-स्यूत-मनरेगा-वृत्तिपत्र-अनुसूचित-जाति-जनजाति-प्रमाणपत्राणि अपि वितरितानि |वित्तीय-साक्षरता-शिविराण्यपि स्थापितानि |कृषि-उद्यान-कृषि-सदृशानां र्वकारीय-विभागानां पक्षतः मण्डपाः आयोजिताः,र्वकारीयोजना-विषयिणी च सूचना प्रदत्ता| एकतः आयोजनमिदं, विकासोत्सवः सञ्जातः, जन-सहभागितायाः उत्सवः संवृत्तः, जन-जागर्तेश्च उत्सवो जातः| कश्मीर-वास्तव्याः विकासस्य उत्सवेsस्मिन् मुक्त-मनसा सहभागिनः अभूवन्|प्रसन्नतायाः विषयोऽयं यत् ग्रामं प्रत्यागमन-विषयकस्य कार्यक्रमस्य आयोजनं तादृशेषु सुदूर-वर्त्तिषु ग्रामेषु अपि विहितं, यत्र सम्प्रापणाय, र्वकारीयाधिकारिभिः दुर्गम-मार्गान् अतिक्रम्य पर्वतान् आरुह्य च कुत्रचिच्च दिवसाय सार्धैक-दीनाय वा पद्भ्यां यात्रा करणीयाभवत्| एते अधिकारिणः सीमावर्तीनि पंचायतान्यपि गतवन्तः, यानि सदा पारेसीमं गोलिका-प्रहार-भीतौ वर्तन्ते | एतावदेव नैव, पुलवामा-कुलगाम-अनंतनाग-जनपदानां अतितरां संवेदनशील-क्षेत्रेष्वपि अधिकारिणः निर्भयं प्राप्तवन्तः |  केचन अधिकारिणस्तु निज-स्वागत-विधिना तावन्तः अभिभूताः यत्ते दिन-द्वयाधिक-कालार्थं ग्रामेषु स्थिताः | एतेषु क्षेत्रेषु ग्रामसभानाम् आयोजनम्, तस्मिन् हूनां जनानां सहभागित्व-निर्वहणम्, आत्मनः कृते च योजना-सज्जीकरणम् – चैतत् सर्वं भूरिशः सुखदं वर्तते | वीनः संकल्पः, नूतनः उत्साहः उत्कृष्टश्च परिणामः | एते कार्यक्रमाः, तेषु च जनानां सहभागिता – इदं सर्वं द्योतयति यत् कश्मीर-वास्तव्याः अस्मदीयाः भ्रातरः भगिन्यश्च Good- Governance-इति सुशासनमभि- लषन्ति | अनेन एतदपि सिद्ध्यति यत् विकास-क्तिः विस्फोटकास्त्र-भूशुण्डी-शक्तितो अधिका प्रभाविनी भवति | एतत्तु स्पष्टतरं यत् ये जनाः विकास-मार्गोपरि विद्वेष-विषं प्रसारयितुमीहन्ते, अवरोधञ्च जनयितुम् अभिलषन्ति, ते स्वीयानिष्ट-समीहासु न कदापि सफलाः भवितुमर्हन्ति |

मम प्रियाः देशवासिनः,ज्ञानपीठ-पुरस्कारेण सम्मानितः श्रीमान् दत्तात्रेय-रामचंद्र-बेंद्रे एकस्यां निज-कवितायां श्रावण-मासस्य महिमानं किञ्चित्  एवंरीत्या प्रस्तुतवान् -

होडिगे मडिगे आग्येद लग्ना | अदराग भूमि मग्ना |

अर्थात्वृष्टेः सम्पातस्य, जलधारायाश्च न्धनम् अद्भुतम्, अनयोः च सौन्दर्यम् अवलोक्य पृथ्वी 'मग्ना' भवति|

अखिलेऽपि भारतवर्षे विविधायाः संस्कृतेः भाषाणां च जनाः श्रावण-मासोत्सवं निज-निज-रीत्या आयोजयन्ति | अस्मिन् ऋतौ वयं यदापि स्वं परितः अवलोकयामः तदैवं प्रतीयते यत् स्यात् धरिण्या हरितम् आस्तरणं सन्धारितमिति| परितः, नूतनायाः कस्याश्चित् शक्तेः ञ्चारो जायते | पवित्रमासेsस्मिन् अनेके श्रद्धालवः कांवड़यात्रा-इति युग्मधर-यात्राम् अमरनाथ-यात्राञ्च कुर्वन्ति, अपरत्र, इतरे जनाः, नियमिततया उपवासमाचरन्ति सौत्सुक्यञ्च जन्माष्टमी-नागपञ्चमी-सदृशान् उत्सवान् प्रतीक्षन्ते | अस्मिन्नेव अवसरे भगिनी-भ्रात्रोः प्रेम-प्रतीकस्य रक्षाबन्धनस्य पर्व आयाति | श्रावण-मासस्य सन्दर्भः यदा प्रवर्तते तदा, भवन्तः इदं ज्ञात्वा भूयसीं प्रसन्नताम् अनुभविष्यन्ति यत् साम्प्रतिके क्रमे अमरनाथ-यात्रायां विगत-वर्ष-चतुष्कापेक्षया अधिकतमाः श्रद्धालवः समाविष्टाः| जुलाई-मास्य प्रथम-दिनाङ्कात् साम्प्रतं यावत् त्रिलक्षाधिकाः तीर्थयात्रिणः पवित्रायाः अमरनाथ-गुहायाः दर्शन-लाभम् अधिगतवन्तः | पञ्चदशोत्तर-द्विसहस्रतमे वर्षे आहत्य षष्टि-दिनात्मिकायाम् अस्यां यात्रायां यावन्तः तीर्थयात्रिणः समाविष्टाः आसन्, तदपेक्षया अधिकाः साम्प्रतिके क्रमे केवलं अष्टाविंशतौ दिनेषु समायाताः सन्ति |

अमरनाथ-यात्रायाः सफलतायै, अहं विशेषेण जम्मू-कश्मीर-वास्तव्यान् तेषाञ्च आतिथ्यञ्च प्रशंसितुं समीहे | ये केऽपि अमरनाथयात्रातः प्रत्यागच्छन्ति, ते राज्य-वास्तव्यानां सोत्साहं निजत्व-भावनया विहितातिथ्येन अभिभूताः भवन्ति |  एतानि सर्वाणि तथ्यानि भविष्यति काले पर्यटनस्य कृते भूरि लाभप्रदानि सेत्स्यन्ति|  अहं संसूचितः यत् उत्तराखण्डेsपि ऐषमः यदा तुर्धाम-यात्रा आरब्धा, तदा प्रभृति सार्धैक-मासाभ्यन्तरे अष्ट-लक्षाधिकाः श्रद्धालवः, केदारनाथधाम्नः दर्शनपुण्यं प्राप्तवन्तः | त्रयोदशोत्तर-द्विसहस्रतमे वर्षे समापन्नायाः भीषणापदायाः अनन्तरं, प्रथमवारं, इयत्याम् आभिलेख्य-संख्यायां तीर्थयात्रिणः तत्र प्राप्तवन्तः |भवतां सर्वेषां कृते ममेदं विनिवेदनं यत् देशस्य तेषु भागेषु भवन्तः अवश्यं प्रयान्तु, येषां सौन्दर्यं, प्रावृडवधौ नयन-रमणीयं भवति |

निज-देशस्य सौन्दर्यम् अवलोकयितुं, निज-देशवासिनाञ्च हार्द-भावान् अवगन्तुं, पर्यटनस्य यात्रायाश्च तुलनायां,स्याद्, कश्चन महत्तरौ शिक्षकौ नैव भवितुम् अर्हतः|भवतां सर्वेषां कृते मम,शुभकामनाः यत् सुन्दरः जीवन् च श्रावण-मासोऽयं, भवत्सु सर्वेषु नूतनायाः ऊर्जायाः, वीनाशायाः अभिनवानाञ्च अभिलाषाणां सञ्चारं कुर्यात् | एवमेव ओगस्ट-मासः 'भारतं त्यजेति'-संघर्षस्य स्मृतिमादाय गच्छति | अभिलषामि यद् भवन्तःओगस्ट-मासीय-पञ्चदश-दिवसस्य कानिचित् विशिष्टानि समुपकल्पनानि कुर्युः |स्वाधीनतायाः अस्य पर्वणः आयोजनस्य नूतनोपायान् अन्वेषयन्तु | जन-सहभागिता नूनं सम्वर्धेत | ओगस्ट-मासीय-पञ्चदश-दिवसः लोकोत्सव-पदवीं केन प्रकारेण प्राप्नुयात्?जनोत्सवोऽयं केन प्रकारेण भवेत्? भवन्तः नूनमिदं चिन्तयन्तु |अपरतः अयमेव सः कालः, यदा देशस्य अनेकेषु भागेषु मूसलाधार-वृष्टिः प्रवर्तते | नैकत्र देशवासिनः जलपूरैः प्रभाविताः सन्ति | जलपूरैः बहुविधा क्षतिरपि सम्मुखीक्रियते|जलपूर-संकटापन्नान् सर्वान् अपि श्वासयामि, यत् केन्द्रम्,राज्यर्वकारैः सम्भूय, दुष्प्रभावितानां कृते सर्वविधं साहाय्यं उपलम्भयितुं तीव्रगत्या कार्याणि सततमनुतिष्ठति | तथा हि यदा वयं दृश्यवाहिनीम् अवलोकयामः तदा वृष्टेः एकमेव पक्षं पश्यामः सर्वत्र जलोपप्लवः, अवरुद्धः जलौघः,  वाहनानां च सम्मर्दः| प्रावृषः अपरं चित्रमस्ति यस्मिन् आनन्दमनुभवन् अस्स्मदीयः कृषकः, कलरव-निरताः पक्षिणः,प्रवहन्तो निर्झराः, हरितास्तरणयुता पृथ्वी एतत् सर्वम् अवलोकयितुं, भवद्भिः स्वयमेव कुटुम्बेन साकं हिः निर्गन्तव्यं भविष्यति| वृष्टिः, सद्यः अर्थात् एषा स्फूर्तिं प्रसन्नताञ्च सहैव आनयति | कामये यत् एषः प्रावृडवसरः भवतः सर्वान् प्रसन्नता-युतान् कुर्यात् | भवन्तः सर्वे स्वस्थाः भवेयुः |

मम प्रियाः देशवासिनः, 'मनोगतम्' -'मन की बात' –इति कुत्र आरभेय, कुत्र विरमेय अतितरां कठिनं कार्यं प्रतीयते, परञ्च, अन्ततोगत्वा समयस्य सीमा भवति |मासावधेः प्रतीक्षानन्तरं पुनः आगन्तास्मि | पुनः मेलितास्मि| अशेष-मासं यावत् भवन्तः मां बहूनि वृत्तानि कथयन्तो भवेयुः| अहं आगामिनि 'मन की बात'-प्रसारणे तानि वृत्तानि संयोजयितुं प्रयतितास्मि, मम युवानः सखायः! पुनः स्मारयामि | भवन्तः प्रश्नोत्तर-मञ्चस्य अवसरं मा स्म त्यजन् | भवद्भ्यः श्रीहरिकोटा-गमनस्य अवसर-प्रापणं, न कस्यामपि स्थितौ त्यजन्तु | भवद्भ्यः सर्वेभ्यः भूरिशो धन्यवादाः | नमस्कारः|

*****

---     भाषान्तर-कर्ता -डॉ.बलदेवानन्द-सागरः                          

 दूरभाषः -   ९८१० ५६२२ ७७                        

 अणुप्रैषः  - baldevanand.sagar@gmail.com

 

 

 

 

 

 



No comments:

Post a Comment