Friday, July 19, 2019

4 sons of an old lady- Sanskrit story

देशभक्ता वृद्धा माता!
--------------------------------  
काचित् वृद्धा आसीत्!
तस्याः चत्वारः पुत्राः आसन्!
ते सर्वे अत्यन्तं शूराः आसन्!

सा वृद्धा माता सर्वदा तान् पुत्रान् देशविषये श्रावयति स्म!
अतः ते पुत्राः सर्वे अत्यन्तं देशभक्ताः आसन्!

एकदा तं देशं वैदेशिकाः यवनाः सहसा आक्रमणं कृतवन्तः आसन्!

तदा तस्य देशस्य राज्ञा सर्वत्र घोषणा कृता यत् प्रत्येकस्मात् गृहात् अपि एकैकः युद्धार्थं युवकः प्रेषणीयः इति!

एतां वार्तां श्रुत्वा सा वृद्धा माता तस्याः प्रथमं पुत्रम् आहूय तस्य ललाटे तिलकं धारयित्वा अकथयत्, हे पुत्र! इदानीं त्वं गच्छ युद्धार्थम्!
देशस्य रक्षणं युष्माभिः करणीयम् एव इति!

सः पुत्रः अपि आनन्देन युद्धार्थं गतवान्, शौर्येण युद्धं कृतवान्, परन्तु युद्धे तस्य मृत्युः अभवत्!

अनन्तरे दिने वार्ता आगता, तस्याः वृद्धायाः प्रथमः पुत्रः मृतः अभवत्!

तदा सा वृद्धा माता तस्याः द्वितीयं पुत्रं अपि युद्धार्थं प्रेषितवती!

सः अपि महान् शूरः आसीत्!
सः अपि अतीव शौर्येण युद्धं कृतवान्! भयङ्करं युद्धं प्रवृत्तम्! परन्तु सः अपि युद्धे मृतः अभवत्!

तस्यापि मृत्योः वार्ता आगता!
इदानीं सा वृद्धा तस्याः तृतीयं पुत्रमपि आहूय युद्धार्थं प्रेषितवती!
गच्छ पुत्र, युद्धार्थं गच्छ विजयी भव इत्युक्त्वा तस्मै आशीर्वादं दत्तवती!

भीषणयुद्धं प्रवृत्तम्! सः अपि अतीव शौर्येण युद्धं कृतवान्, परन्तु तस्यापि युद्धे मृत्युः अभवत्!

तस्याः वृद्धायाः तृतीयः पुत्रः अपि मृतः इति वार्ता आगता!
एषा वार्ता सा वृद्धा श्रुतवती, सर्वे ग्रामिणः अपि श्रुतवन्तः!

तदा केचन ग्रामिणः तस्याः समीपम् आगत्य उक्तवन्तः हे मातः! भवत्याः तृतीयः पुत्रः अपि मृतः अभवत्!
इदानीं भवत्याः चतुर्थं पुत्रं मा प्रेषयिष्ट!
भवत्याः दर्शनार्थं तस्य महत् प्रयोजनम् अस्ति इत्युक्त्वा ते अनुरोधं कृतवन्तः आसन्!

परन्तु सा वृद्धा माता तेषां वचनं न श्रुतवती, तस्याः चतुर्थं पुत्रमपि युद्धार्थं प्रेषितवती!

सः चतुर्थः पुत्रः अपि पराक्रमेण युद्धं कृतवान् परन्तु सः अपि रणरङ्गे मृतः अभवत्!

तस्याः वृद्धायाः चतुर्थः पुत्रः अपि मृतः अभवत् इति वार्तां श्रुत्वा सा वृद्धा दुःखिता अभवत्!
तस्याः नेत्राभ्याम् अश्रूणि आगतानि !

वृद्धायाः रोदनं दृष्ट्वा सर्वे ग्रामिणः अपि दुःखिताः अभवन्! ते वृद्धाम् उक्तवन्तः, भवती तु अस्माकं वार्तामेव न श्रुतवती, इदानीं रोदनं कृत्वा किं वा प्राप्स्यति इति!

तदा वृद्धा माता उक्तवती- मम चतुर्थः पुत्रः अपि मृतः इति दुःखं नास्ति, युद्धार्थं मम पञ्चमः पुत्रः नास्ति खलु इत्येव मम दुःखम्!

🌷🌺
-प्रदीपः

No comments:

Post a Comment