Friday, July 19, 2019

chandra grahana slokas

चन्द्रग्रहण पीडा परिहारा मन्त्रः ||
योऽसौ वज्रधरो देव आदित्यानां प्रभुर्मतः ।
सहस्रनयनश्चन्द्र ग्रहपीडां व्यपोहतु ।।
मुखं यस्सर्व देवानां सप्तर्चिरमितद्युति : ।
चन्द्रोपरागसंभूतामग्नि: पीडां व्यपोहतु ।।
यः कर्मसाक्षी लोकानां यमो महिषवाहन: ।
चन्द्रसूर्योपरागोत्थां ग्रहपीडां व्यपोहतु ।।
रक्षोगणाधिपस्साक्षात् प्रलयानिलस्सन्निभः ।
करालो निरृतिश्चन्द्र ग्रहपीडां व्यपोहतु ।।
नागपाशधरो देवो नित्यं मकर वाहनः ।
सालिलाधिपतिश्चन्द्र ग्रहपीडां व्यपोहतु ।।
प्राणरूपोहि लोकानां वायु: कृष्णमृगप्रिय: ।
चन्द्रोपरागसंभूतां ग्रहपीडां व्यपोहतु ।।
योऽसौ निधिपतिर्देव: खड्गशूलधरो वर: ।
चन्द्रोपरागसंभूतां कलुषं मे व्यपोहतु ।।
योऽसौ शूलधरो रुद्रश्शड्करौ वृषवाहन: ।
चन्द्रोपरागजं दोषं विनाशयतु सर्वदा ।।
।। जन्म नक्षत्र रक्षा श्लोकम्||

इन्द्रो अनलो दण्डधारश्च रूक्षा: ।
पाशायुधो वायु कुबेर ईशाः ।।
कुर्वन्तु सर्वे मम् जन्म रक्षा ।
राशिस्थ चन्द्रग्रहण दोष शान्तिम् ।।

No comments:

Post a Comment