Wednesday, July 3, 2019

1st vibhakti prayoga in Sanskrit

प्रथमा विभक्तिः--- (प्रयोगः)

१. स्वतन्त्रः कर्ता-- छात्रः पठति। भक्ताः देवालयं गच्छन्ति।
२. अभिधेयमात्रे---
(क) प्रातिपदिकार्थे-- कृष्णः, धनम्, वृक्षः आदि।
    (ख) लिङ्गमात्रे-- नरः, नारी, फलम् आदि।
      (ग) परिमाणमात्रे-- द्रोणो ब्रीहिः।
       (घ) वचनमात्रे-- एकः, बहवः आदि।
३. अव्यययोगे-- पुरा अयोध्यायां दशरथ इति राजा वभूवः। दुर्जनानां सङ्गः परित्यक्तुं साम्प्रतम्।
४. तत्प्रयोजको हेतुश्च-- आचार्यः शिष्यं व्याकरणं पाठयति। सः मां चित्रं दर्शयति।
५. उक्ते कर्तरि-- सः अन्नं खादति। दशरथः रामं दृष्टवान्।
६. उक्ते कर्मणि--- तेन अन्नं खाद्यते। दशरथेन रामो दृष्टः।
७. सम्बोधन च-- भोः गोविन्द ! त्राहि माम् ! रे मुर्ख ! साधुमाचर।
८. दानार्थकाव्ययप्रयोगे-- एषः पुष्पाञ्जलिः सरस्वतै नमः। इदं घृतम् अग्नये स्वाहा, इति। (सङ्कलनम्) -- नारदः।

No comments:

Post a Comment