Thursday, June 20, 2019

Sanskrit jokes- Cricket

#SanskritJokes


ह्यस्तने (जूनमासस्य नवमे दिने) विश्वचषकस्य क्रिकेटद्वन्द्वे, यदा भारतेन ३५३ धावनाङकान् कृत्वा ऑस्ट्रेलियादेशस्य पुरतः महत् आह्वानं प्रस्थापितं,  तदा कथं वा एषः लक्ष्यः प्राप्तव्यः एतद्विषये ऑस्ट्रेलियादेशस्य क्रीडालू फिञ्चवार्नरौ चर्चां कुर्वतौ आस्ताम्। 


फिञ्चः (चिन्ताग्रस्तः सन्) :- कथं करिष्यामः ३५३ धावनाङकान्? विजयस्य सम्भावनास्ति वा?


वार्नरः :- अमितशाहं दूरध्वनिं कुरु, कानिचन दिनानि पूर्वं तेनापि ३५३ अङ्काः प्राप्ताः आसन्...😂😂

No comments:

Post a Comment