Thursday, June 13, 2019

Sanskrit grammar joke

*कार्तिकः* 
_बालः ग्रामं गच्छति_ 
विवृणोतु 
*रमणः* बालः अस्ति I सः ग्रामं गच्छति । 
*कार्तिकः* न न I 
गम् धातोः अर्थः संयोगरूपं फलं , तदनुकूलक्रिया च । 
गमन क्रिया: आश्रयः बालः । अतः बालः कर्ता । कर्तुः बालस्य गमनक्रियाजन्यसंयोगरुपफलेन  सम्बन्धुम् इष्यमाणः ग्रामः I
अतः ग्रामः कर्म भवति ।
गमनं नाम पूर्वदेशस्य त्यागः, उत्तरदेशस्य प्राप्तिः I बालः स्वगमनेन ग्रामे स्वसंयोगो भवतु इति इच्छाति ।
कर्तृरीप्सिततमं कर्म I कर्तृ: क्रियाया आप्तुम् इष्टतमं कारकं कर्म संज्ञं स्यत् ...
*रमणः* आर्य ! किञ्चित् कार्यमस्ति । पुनः मिलामः। 🙏

No comments:

Post a Comment