Tuesday, June 18, 2019

samaani vaa Akooti: - Rigveda mantra - Sanskrit

Courtesy:Sri.Narad Upadhyay
ऋग्वेदे उपदेश-वचनम्--
समानी व आकूतिः समाना हृदयानि वः। समानमस्तु वो मनो यथा वः सुसहासति।। इति।
      अर्थात् भवन्तः सर्वे समानाः भवन्तु, भवतां हृदयानि समानानि भवन्तु,  तथैव भवतां मनः एकसमानं भवतु , यद्वारा च भवतां कार्यं परस्परं पूर्णतः संघटितरूपेण सिद्धं भवेदिति।
      अर्थात् यत्किमपि समुचितं कार्यं जनैः सहृदयं परस्परं सम्मिल्य सङ्घटितरूपेण सम्पादनीयम् इति वेदाज्ञा।

No comments:

Post a Comment