Thursday, May 16, 2019

Mrutyu yoga in astrology - Sanskrit

मृत्युयोग: जातकालङ्कारग्रन्थानुसारं

यानेशस्तत्र संस्थो यदि भवति तदा यानहेतुर्मृति:स्याच्
चोराच्छस्त्रेण चिन्ता नवमभवनतो भाग्यजाता विधेया।
व्योम्नो भूपालभूषावसनहयमहत्कर्मणांअयं प्राप्ति चिन्ता
लाभस्थाने:खिलानां व्ययनिधनगृहात्कल्मषाणां विधेया।।३६।।वै।।

संस्कृत व्याख्यानं :-

चतुर्थेशस्तत्र षष्ठभावे चेत्तदा यानहेतुर्मृति:स्यात् ।चौराच्छस्त्रेण च मृति: । तत्रेति अरिभावपरामर्शेन यानेशस्य शन्यादियोगे।वक्ष्यते।अयमर्थ:शनियोगे यानहेतोर्मृति:,राहुयोगे चौरान् मृति: केतुयोगे शस्त्रेण मृति:।
अथ संक्षेपादुक्तानां नवमादि भावानां सामान्यचिन्तालंबनमुच्यते।नवमभावतो भाग्यजाता चिन्ता विधेया:। अयं भाव: भाग्ये यो ग्रह: भाग्येशो यो ग्रह:भाग्य भवनस्थो यो राशिस्तद्वारा केन्द्रग्रहात् भाग्यभवने शुभाशुभवर्गविवेक:। भाग्यभाग्येशबलाबलत्वमित्यादि विचार्य जातकशास्त्रविचारं परिभूय बुद्ध्या फलं वक्तव्यम्।तथाभिहितं कल्याणवर्मणाभाग्यर्क्षपति: कस्मिन्को वा भाग्यर्क्षमाश्रितो विहग:।बलवान्मध्यबलो वा इत्यादि।। वत्सदेशराजशर्मा।।

No comments:

Post a Comment