Thursday, May 16, 2019

Pragyanam brahma - aitreya upanishad - meaning in sanskrit

।।श्रीराम जय राम जय जय राम।।

"प्रज्ञानं ब्रह्म।" 
(ज्ञान ही ब्रह्म है)

     –ऐतरेय  उपनिषद् , 3/3, ऋग्वेद 
         (शुकरहस्योपनिषद्)

"प्रज्ञाने सर्वं प्रतिष्ठितं, प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठा 'प्रज्ञानं ब्रह्म'।"

  –ऐतरेयोपनिषतद्, 3/1/3 

सर्वं प्रज्ञाने प्रतिष्ठितम् । अयं लोकः प्रज्ञानेत्रः । प्रज्ञा एव प्रतिष्ठा, प्रज्ञानं ब्रह्म ।

जीवब्रह्मणोः एकत्वप्रतिपादनपराणि इमानि महावाक्यानि । चत्वारि प्रसिद्धानि महावाक्यानि सन्ति । 
ऋग्वेदीय ऐतरेयोपनिषदि प्रज्ञानं ब्रह्म; यजुर्वेदीय बृहदारण्यकोपनिषदि 'अहं ब्रह्मास्मि'; सामवेदीय 
छान्दोग्योपनिषदि 'तत्त्वमसि'; तथा अथर्ववेदीय माण्डूक्योपनिषदि 'अयमात्मा ब्रह्म' इति । 
एतेषु एकैकमपि महावाक्यम् उपनिषदां परमसन्देश एव ।

प्रकृते 'प्रज्ञानं ब्रह्म' इत्येतत् ऐतरेयोपनिषदः महावाक्यम् । 'प्रज्ञानम्' इति –प्रकृष्टं ज्ञानं प्रज्ञानम् । 

इन्द्रियोपाधिद्वारा भिन्नभिन्नतया अवभासमानाः चैतन्यस्वरूपाः जीवाः प्रज्ञानम् इति कथ्यन्ते । एते परिच्छिन्ना 
जीवाः सर्वे परमार्थतः अरिपूर्णब्रह्मस्वरूपा एव । प्रज्ञानं नाम पूर्णं ब्रह्मैव । जीवाः नूनं परं ब्रह्मैव ।

          –रमेशप्रसाद शुक्ल

No comments:

Post a Comment