Friday, May 31, 2019

6 doshas -sanskrita subhashitam

*सुभाषितम्*
*षड् दोषाः पुरुषेणेह हातव्या भूतिमिच्छता!*
*निद्रा तन्द्रा भयं क्रोधः आलस्य दीर्घसूत्रता!!*

श्लोकस्य अर्थः एवमस्ति..
यः पुरुषः ऐश्वर्यं समृद्धं सम्पदं च प्राप्तुम् इच्छति सः एतान् सर्वान् दोषान् दूरीकुर्यात्! के ते दोषाः इत्युक्ते निद्रा- सर्वत्र निद्रा न करणीया! 
तन्द्रा- सर्वदा निद्रावस्थायाम् एव भवति, तथा न भवेत्! भयम् - सर्वेषु विषयेषु भयं न भवेत्! 
क्रोधः - यत्र यत्र कोपस्य आवश्यकता अस्ति तत्र कोपः करणीयः, यत्र आवश्यकता नास्ति तत्र कोपः न करणीयः! आलस्यम्- वयं तु सर्वदा विद्यार्थिनः एव, जीवने सर्वस्मिन् क्षणे अपि वयं शिक्षणं प्राप्नुमः, अतः अस्मासु कदापि आलस्यं न भवेत्!
दीर्घसूत्रता- कार्यम् अद्य करोमि, श्वः करिष्यामि, परश्वः करिष्यामि, एवं विलम्बः न भवेत्! अद्यतन कार्यम् अद्य एव करोमि इदानीमेव करोमि इति एवं भवेत्! अस्तु! 
हरिः ॐ, --प्रदीपः!

No comments:

Post a Comment