विधिलिङः उपयोगः इच्छा,अपेक्षा, विधि(कर्तव्य)निदर्शनम्, भविष्यत्कालनिर्देशः, सम्भाव्यता, संकेतः इत्येतैः अर्थैः भवति।
सर्वदा शुभं भवेत्।(इच्छा/सदिच्छा)
कृषिवलाः बहुधान्यं विन्देरन्। (अपेक्षा)
छात्रः प्रतिदिनं पठेत्।(विधिः)
अद्य प्रायः वृष्टिः भवेत्।(सम्भाव्यता)
श्वः मम मित्रम् आगच्छेत्।(भविष्यत्)
यदि आकाशे मेघाः आगच्छेयुः तर्हि वृष्टिः भवेत्।(संकेतः)
लटः उपयोगः केवलं वर्तमानकालीनक्रियायाः कृते।
विधिलिङ्मध्ये अर्थप्राधान्यम्। न कालस्य। अतः एव विधि-अर्थः विध्यर्थः इति आख्या।
No comments:
Post a Comment