*स्वर्वाणीप्रकाशः* (वाट्साप् गणः)
💍मङ्गलवासरः फाल्गुनशुक्लषष्ठी (12-03-19)💖
✍प्रस्तावविषयः-- गान्धर्वविवाहः💐
ब्राह्म- दैव - आर्ष - प्राजापत्य - गान्धर्व - आसुर - राक्षस - पैशाचिक इत्यादयाः अष्टविधाः विवाहाः सन्ति। वधू-वरयोः परस्परेच्छया प्रेम्णा च यदि जायते विवाहः तर्हि गान्धर्वविवाहः इत्युच्यते। रुक्मिणीकृष्णयोः विवाहः नलदमयन्त्योः विवाहः एतादृशाः गान्धर्वविधिना कृताः खलु।
आधुनिके काले गान्धर्वविवाहाः सर्वसाधारणाः। एकया रीत्या पश्यामश्चेत् अस्मिन् काले तादृशः एव योग्यः विवाहः।
वधू-वरयोः प्रेम्णा तथा मातापित्रोः आशिषा च यदि विवाहो जायते तर्हि सुष्ठुतरः विवाहः इति चिन्तनं मम।।
भारतीयनियमानुसारं विवाहार्थं तरुण्याः वयः न्यूनातिन्यूनम् अष्टादश भवितव्यम् एवं वरस्य वयः एकविंशतिश्च तादृशो विवाहःनियमानुसारं साधुरेव। पाश्चात्यदेशेषु विवाहः तथा विवाहमोचनञ्च तावत् प्रामुख्येन जनाः न चिन्तयन्तीति मन्ये
स्वीयम् इष्टानिष्टमेव ते पश्यन्ति। किन्तु भारतादि देशेषु अधुनाऽपि विवाहः जीवने मुख्यसंस्कारः इत्येव अस्माकं भावः। प्रणयविवाहात् कदाचित् जाति-मतद्वेषोऽपि जायते। धर्मपरिवर्त्तनार्थमपि कपटप्रणयमभिनयन्ति केचन इत्यपि श्रध्दया अवलोकनीयः। अत अस्मिन् काले पुत्रीपुत्राणां कृते सम्यक् व्यक्तेनिरूपणकैशलं समाजबोधः तथैव धार्मिकबोधश्च कल्पनीयाः। सुचिन्तितेन परस्परधारणया परिपक्वतया च कृताः गान्धर्वविवाहाः एव शोभन्ते इत्येवं निरूपयामि!
- सुनीशः
No comments:
Post a Comment