॥ श्रीरामचन्द्रस्तुति ॥
जानाति राम तव तत्त्वगतिं हनूमान् जानाति राम तव सख्यगतिं कपीश: ।
जानाति राम तव युद्धगतिं दशास्यो जानाति राम धनदानुज एव सत्यम् ॥६॥
पदविभाग:
जानाति राम तव तत्त्वगतिं हनूमान् जानाति राम तव सख्यगतिं कपीश:
जानाति राम तव युद्धगतिं दशास्य: जानाति राम धनदानुज एव सत्यम्
अन्वय:
हे राम ! तव तत्त्वगतिं हनूमान् जानाति । हे राम! कपीश: तव सख्यगतिं जानाति । हे राम! दशास्य: तव युद्धगतिं जानाति । हे राम! (तव) सत्यम् धनदानुज: एव जानाति ।
धनदानुज: - विभीषण:
कपीश: - सुग्रीव:
~ शरवण:
No comments:
Post a Comment