Monday, December 24, 2018

Sanskrit poem

रासभो विद्वान्
*************
निःश्वासैः शब्दशास्त्रं श्रुतिविषयमपि घ्राणकार्येण सम्यग्
वेदान्तन्यायतत्त्वं नयनपतनाज् ज्योतिषं कर्मकाण्डम्।
आयुर्वेदं पुराणं सरसरसनया सहित्यं स्पर्शमात्रात्
श्रीमान् ज्ञाता च वक्ता धृतगिरिजठरो रासभो नाम विद्वान्।।
              (व्रजकिशोरः)

No comments:

Post a Comment