कस्त्वं शूली मृगय भिषजं नीलकण्ठः प्रियेऽहम्
केकामेकां कुरु पशुपतिर्नैव दृष्टे विषाणे ।
स्थाणुर्मुग्धे न वदति तरुर्जीवितेशः शिवायाः
गच्छाटव्यामिति हतवचाः पातु वश्चन्द्रचूडः ॥
—कदाचित् कुत्रापि गतः शिवः गृहं प्रत्यागतः । द्वारं पिहितम् आसीत् । शिवः यदा द्वारशब्दं कृतवान् तदा पार्वती अपृच्छत् - 'कः भवान् ?' शिवः अवदत् - 'अहं शूली ।' शूली इत्यस्य शूलरोगयुक्तः इत्यर्थं कल्पयित्वा पार्वती अवदत् - 'वैद्यसमीपं गच्छतु ।' शिवः अवदत् - 'अहं नीलकण्ठः ।' मयूरस्यापि कण्ठः नीलः । अतः पार्वती नीलकण्ठपदस्य मयूरः इत्यर्थं कल्पयित्वा अवदत् - 'भवान् नीलकण्ठः (मयूरः) चेत् एकां केकां करोतु' इति । शिवः अवदत् - 'अहं पशुपतिः ।' पार्वती अवदत् - 'पशूनां पतिः चेत् भवतः शृङ्गौ कुत्र ?' इति । 'अहं स्थाणुः अस्मि' - शिवः अवदत् । स्थाणुः इत्यस्य शाखादिरहितः शुष्कवृक्षकाण्डभागः इत्यपि अर्थः । अतः पार्वती वदति - 'स्थाणुः न वदति' इति । 'अहं शिवायाः पतिः' इति वदति शिवः । शिवा नाम शृगाली अपि । अतः पार्वती वदति - 'भवान् शिवायाः पतिः चेत् अरण्यं गत्वा तत्र वासं करोतु' इति । एवं पार्वती यं वचनैः जितवती सः शिवः भवतः सर्वान् रक्षतु ।
*— हिन्दी अनुवाद-*
कहीं गए हुए शिवजी जब घर वापस लौटे तब घर का द्वार बंद था। जब शिवजी ने दरवाजा खटखटाया तब पार्वती ने पूछा," तुम कौन हो?"
शिवजी ने कहा," मैं शूली (त्रिशूलधारी) हूँ।"
शूली अर्थात् शूलरोगयुक्त ऐसा जानकर पार्वती ने कहा,"वैद्य के पास जाओ।"
शिवजी ने कहा,"मैं नीलकण्ठ हूँ।" मयूर का भी गला नीले रंग का होता है तो पार्वती ने कहा,"तुम नीलकंठ (मयूर) हो तो एक केका करो।"
शिवजी ने कहा,"मैं पशुपति हूँ।" तब पार्वती ने कहा "तुम्हारे शींग कहाँ है?"
शिवजी बोले,"मैं स्थाणु हूँ।" (स्थाणु का एक अर्थ सूखी लकडी का टुकडा भी है।) पार्वती ने कहा,"लकडी़ बोलती नहीं है।"
शिवजी ने कहा,"मैं शिवा (पार्वती) का पति हूँ। शिवा का दूसरा अर्थ शृगाली (मादा शियाल) भी होता है। तो पार्वती बोली," तुम शृगाली के पति = शियाल हो तो वन में जाकर वास करो।"
इस प्रकार नर्मयुक्त वचनों से पार्वती के द्वारा पराजित चन्द्रचूड शिवजी हमारी रक्षा करें।
No comments:
Post a Comment