Monday, December 17, 2018

Sri madhaveeya sankara dig vijaya 7th sloka in sanskrit

श्रीमाधवीयश्रीशङ्करदिग्विजयसारः 🕉

मूलश्लोकः
७. स ब्रह्मचारी गुरुगेहवासी तत्कार्यकारी विहितान्नभोजी ।
सायम्प्रभातं च हुताशसेवी व्रतेन वेदं निजमध्यगीष्ट॥

पदच्छेदः
सः, ब्रह्मचारी, गुरुगेहवासी, तत्कार्यकारी, विहितान्नभोजी, सायम्, प्रभातं, च, हुताशसेवी, व्रतेन, वेदं, निजम्, अध्यगीष्ट।

अन्वयः
सः ब्रह्मचारी गुरुगेहवासी तत्कार्यकारी विहितान्नभोजी सायम् प्रभातं च हुताशसेवी व्रतेन निजं वेदं अध्यगीष्ट।

पदपरिचयः
ब्रह्मचारी = नकार. पु. प्र. एक.
गुरुगेहवासी = नकार. पु. प्र. एक.
तत्कार्यकारी = नकार. पु. प्र. एक.
विहितान्नभोजी = नकार. पु. प्र. एक.
सायम् = अव्ययम्
प्रभातम् = अव्ययम्
हुताशसेवी = नकार. पु. प्र. एक.
अध्यगीष्ट = अधि + इङ् (अध्ययने) लुङ्

तात्पर्यम्
सः शिवगुरुः कृतोपनीतः ब्रह्मचारी सन् स्वस्य गुरोः गृहे तस्य सेवानिरतः सन् भिक्षया लब्धम् गुरवे निवेदितमन्नं सेवमानः सायं प्रातः अग्निं सेवमानः ब्रह्मचर्यव्रतेन स्वीयशाखां अधीतवान् ।
ಶಿವಗುರುವು ಬ್ರಹ್ಮಚಾರಿಯಾಗಿ ತನ್ನ ಗುರುವಿನ ಗೃಹದಲ್ಲಿ ವಾಸಮಾಡುತ್ತ, ಗುರುಸೇವೆ ಮಾಡುತ್ತ, ವಿಹಿತವಾದ ಭಿಕ್ಷಾನ್ನವನ್ನು ಭುಂಜಿಸುತ್ತ ಬೆಳಗ್ಗೆ ಮತ್ತು ಸಂಜೆ ಅಗ್ನಿಕಾರ್ಯವನ್ನು ನಿರ್ವಹಿಸುತ್ತ ವ್ರತಬದ್ಧನಾಗಿ ತನ್ನ ವೇದಶಾಖೆಯನ್ನು ಅಭ್ಯಾಸ ಮಾಡಿದನು.
Sivaguru became a brahmachari, lived in the house of his preceptor, obeyed his commands, took food as enjoined by the sastras, performed the worship to Agni both morning and evening (Samitadanam) and learnt the Veda according to the rules.

व्याकरणविशेषाः
१. गुरुगेहवासी = गुरोः गेहं (गृहं) गुरुगेहम् । तत्र वस्तुं शीलं अस्य अस्तीति ।
२. तत्कार्यकारी = तस्य कार्यं कर्तुं शीलं अस्य इति ।
३. विहितान्नभोजी = विहितं अन्नं भोक्तुं शीलम् अस्य अस्तीति ।
४. हुताशसेवी = हुताशं (अग्निं) सेवितुं शीलमस्येति ।

छन्दः - उपजातिः
अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः ।

No comments:

Post a Comment