Thursday, November 22, 2018

Saptarishi ramayanam - kishkinda kandam - sanskrit

॥ सप्तर्षिरामायणम् ॥
।किष्किन्धाकाण्डम् ।
विश्वामित्र: उवाच

गत्वा पञ्चवटीमगस्त्यवचनाद्दत्वाsभयं मौनिनां छित्त्वा शूर्पणखाsस्यकर्णयुगलं त्रातुं समस्तान् मुनीन् ।
हत्वा त च खरं सुवर्णहरिणं भित्त्वा तथा वालिनं तारारत्नमवैरिराज्यमकरोत् सर्वं च सुग्रीवसात्  ॥૪॥

पदविभाग:

गत्वा पञ्चवटीम् अगस्त्यवचनात् दत्वा अभयं मौनिनां छित्त्वा शूर्पणखाsस्यकर्णयुगलं त्रातुं समस्तान् मुनीन् 
हत्वा तं च खरं सुवर्णहरिणं भित्त्वा तथा वालिनं तारारत्नम् अवैरिराज्यम् अकरोत् सर्वं च सुग्रीवसात्  

अन्वय:

अगस्त्यवचनात् पञ्चवटीं गत्वा मौनिनां अभयं दत्वा शूर्पणखाsस्यकर्णयुगलं छित्वा समस्तान् मुनीन् त्रातुं खरं हत्वा तं सुवर्णहरिणं भित्वा च तथा 
तारारत्नम् वालिनं (हत्वा)  अवैरिराज्यम् सर्वं च सुग्रीवसात्  अकरोत् ।

(शूर्पणखाsस्यकर्णयुगलं - 
शूर्पणखाया: आस्यं कर्णयुगलं च )

~ ✍ शरवण:

No comments:

Post a Comment