☘☘
*वनानि दहतो वन्हेस्सखा भवति मारुत:।*
*स एव दीपनाशाय कृशे कस्यास्ति सौहृदम् ।।*
यदा प्रचण्डः अग्निः वनानि दहति तदा वायुः तस्य सहायकः भवति। तथापि स एव अग्निः यदा दीपमध्ये लघुज्योतिरूपेण तिष्ठति तदा सः एव वायुः तस्य नाशाय एव प्रयतते। एवमेव यावत् जनः बलवान् ऐश्वर्यसम्पन्नः तिष्ठति तावत् सर्वे तस्य सहायकाः। यदा स एव बलहीनः दरिद्रः वा जायते तदा तस्य मित्रतां न कोsपि इच्छति।
🌸🌸
No comments:
Post a Comment