Friday, November 9, 2018

Sanskrit simile

गुड्डरिकाप्रवाहन्यायः।
-----------------------------

गुड्डरिकानां कश्चन स्वभावः अस्ति। ते सर्वे सदैव समूहरूपेण चलन्ति। यः अग्रेसरः भवति तमेव सर्वे अपि अनुसरन्ति। सः यत्र गच्छति यथा गच्छति तत्र सर्वे अपि तथैव अनुसरन्तः भवन्ति । एवं कथ्यते यदा अग्रेसरः गुड्डरिकः कुत्रचित् गर्त्ते पतति  तस्य पृष्ठतः सर्वे अपि गर्त्ते एव पतन्ति।ते सर्वे प्रवाहरूपेण अनुसरन्तः पतन्ति।   कोऽपि अत्मानं रक्षितुं प्रयत्नं न करोति। यत्र जनाः गतानुगतिकया अन्धः इव अग्रेसरन्तं अनुसरन्ति , अग्रगामिनां आचरणं अन्धः इव अनुसृत्य विषमस्थितौ पतन्ति तत्र एतत् गुड्डरिकाप्रवाह न्यायं वक्तुं शक्यते।



 

No comments:

Post a Comment