श्रीरामचन्द्रकथा
🍂🍃🍂🍃🍂🍃🍂🍃
पुरा आसीद् दशरथः नाम अयोद्ध्याधिपतिः। तस्य गृहे भगवान् विष्णुः जातः। स च लोके 'राम' इति ख्यातः अभवत्। राघवः बाले एव विश्वामित्रस्य आश्रमं गत्वा तत्र मारीचं नाम राक्षसं न्यषूदयत। तस्मै च विश्वामित्रेण अस्त्राणि शत्रूणां वधार्थं दत्तानि। ततश्च विदेहनगरीं गत्वा माहेश्वरं चापं लीलया तेन भग्नम्। जनकस्य सुतां सीतां नाम स पर्यणयत्। तया सह स पुनः अयोध्याम् आगतः। अथ कालान्तरेण स पितृवचनात् सीतया लक्ष्मणेन च सह वनं गतः। तत्र च चतुर्दश वर्षाणि न्यवसत्। धर्मात्मा राघवः जनस्थाने राक्षसानां चतुर्दशसहस्राणि अहन्। तदा तस्य भार्या जानकी रावणेन अपहृता। भार्यावियोगेन दुःखितः स किष्किधां गत्वा सुग्रीवेण सह मैत्रीं कृतवान्। तत्र च वानरेन्द्रं वालिनं हत्वा सुग्रीवं राज्ये अभ्यषिञ्चत्। अनन्तरं समुद्रे सेतुं बद्ध्वा वानरैः सह लङ्कां प्राविशत्। तत्र च रावणं नाम लङ्केशं युद्धे न्यषूदयत। अनन्तरं सीताम् आदाय पुष्पकविमाने अयोध्यानगरीं पुनः प्राप्तः। वसिष्ठेन राज्ये अभिषिक्तः असौ मेदिनीं धर्मेण अपालयत्।
🍁--:'संस्कृतकथासंग्रहः' इत्यस्मात् पुस्तकात् सन्धिं विभज्य प्रस्तूयते।🌸
~कामिनी सोनी
No comments:
Post a Comment