Friday, November 30, 2018

Elephants - Sanskrit essay

Courtesy:Sri.Suneesh Namboodiri

गजाः🐘🐘🐘🐘

गजति मदेन मत्तो भवति इति गजः। अर्थः एवम् अस्ति उच्चैः शब्दं करोति एवं मदेन उन्मत्त अपि भवति तादृशः जन्तुः गजः इति।। 


समानार्थका: शब्दाः दन्ती 
दन्तावलः,हस्ती ,द्विरद: ,अनेकप: ,द्विप: ,मतङ्गज: ,गज: ,नाग: ,कुञ्जर: ,वारण: ,करी,इभ: ,स्तम्बेरम: ,पद्मी गज: ,करेणु: ,पीलु: ।। 

एवम् अनेकानि पर्यायपदानि सन्ति गजस्य। भगवान् गणेशः गजानन इति प्रसिद्धः। केरलीयाः विशेषतया गजप्रेमिणः। मन्दिरेषु उत्सवसमये गजानाम् उपयोगः भवन्ति। गजा अतिस्थूलमृगाः तथापि तेषां मुखे उपयोगयोग्याः केवलचत्वारः दन्ता एव सन्ति इति विस्मयं जनयति। गजपरिपालनं सविस्तरं प्रतिपादयति मातङ्गलीला इति संस्कृतग्रन्थः। अस्मिन् ग्रन्थे गजानां लक्षणम् तेषां जातयः (भिन्नविभागाः) चिकित्सा इत्यादयः सन्ति। मनुष्याणाम् इव गजानाम् अपि नामकरणं कुर्वन्ति बहुधा।। 

पुराणेषु अपि गजसम्बन्धाः कथाः सन्दर्भाश्च सन्ति खलु।। 

 ➖ देवेन्द्रस्य वाहनं ऐरावत इति कश्चन विशिष्टगजः।। 

➖श्रीमदभागवते गजेन्द्रमोक्षकथा प्रसिद्धा। 

➖ गजमुखः विघ्नेश्वरः सर्वेषाम् आद्यपूज्यः। 

➖पुराणेषु वीराणां शूरानां शक्तिः गजशक्तेः तुलनां कुर्वन्ति स्म। 

➖ कुवलयापीडः  कंसस्य हस्ती।सः गजः देवकीसुतेन कृष्णेन हतः।। 

➖भगवान् शिवः गज चर्माम्बरधारी अस्ति।। 


करिणः कौतुककराः मृगा इति निश्चयेन वक्तुं शक्नुमः।। 

🙏🙏🙏

- सुनीशः

No comments:

Post a Comment