Friday, November 16, 2018

Raasa leela -Sanskrit essay

Courtesy:Smt.Baala Chiraavoori
*स्वर्वाणीप्रकाशः* (वाट्साप् गणः) 
💝बुधवासरः आश्वयुजपौर्णमी (24-10-18)💐
✍प्रस्तावविषयः-- रासलीला🕉

 *रासललीला* 

अङ्गनामङ्गनामन्तरे माधवो
माधवं माधवं चान्तरेणाङ्गना। 
इत्थमाकल्पिते मण्डले मध्यगः
सन्जगौ वेणुना  देवकीनन्दनः।।
      - - कृष्णकर्णामृतम्

श्रीकृष्णकर्णामृतकर्ता लीलाशुकः स्वचर्मचक्षुषैव  कृष्णलीलाविलासं दर्शितवान्। तासु रासलीलामपि अपश्यत्।  गोप्यः सर्वा अपि बृन्दावने श्रीकृष्णेन सह क्रीडन्ति। तस्यां क्रीडायां परमात्मा प्रति गोपिकायां मध्ये वेणुनादं कुर्वन् नृत्यति। तथैव प्रति माधवयोर्मध्ये एका अङ्गना आनन्देन तन्मयत्वेन खेलति। सर्वत्रापि एक एव वासुदेवः नैकानि वासुदेवरूपाणि संधार्य प्रति गोपिकाsपि मत्स्वामी मया सहैव खेलति। मदीयः अयं वासुदेवः इति भावनां अकल्पयत्। हे स्वामिन्! पतिपुत्रपशुबान्धवाः सर्वमपि त्वमेव। त्वत्तः परतरो मास्तु। इति अत्यन्तं प्रह्वीभावेन प्रार्थितवन्तः। गोकुले निवसन्त्यः गोप्यः धन्याःखलु। तथिविधमानन्दं ब्रह्मादयोsपि न प्राप्नुवन्ति। ब्रह्मादि सुरगणा अपि भगवतः रासलीलां द्रष्टुं आगच्छन्ति स्म किल।

भगवानपि ता रात्रीः शरदोत्फुल्लमल्लिकाः। 
वीक्ष्य रन्तुं मनश्चक्रे योगमायामुपाश्रितः।। 
      - - भागवतम्

भगवान् वासुदेवः योगमायां स्वस्मिन् संस्थाप्य शारदीरात्रिषु गोपिकाः ब्रह्मानन्दं प्रदातुं  ताभिःसह रन्तुं  स्वकीयं वेणुं निनद्य ताः उद्बोधितवान्। ताभिःसह क्रीडित्वा क्रीडित्वा मध्ये अन्तर्धानं अकरोत् किल। तस्मिन् समये गोपिकाविरहवेदनां अत्यन्तं आर्द्रं वर्णितवन्तः भगवान् शुकमहर्षिः। 

शरदुदाशये साधुजातसत्
सरसिजोदरश्रीमुषा दृशा।
सुरतनाथ तेऽशुल्कदासिका
वरद निघ्नतो नेह किं वधः॥

तव कथामृतं तप्तजीवनं
कविभिरीडितं कल्मषापहम्।
श्रवणमङ्गलं श्रीमदाततं
भुवि गृणन्ति ते भूरिदा जनाः।। 


इत्थं रासक्रीडा पञ्चाध्यायेषु वर्णितवन्तः। भागवते दशमस्कन्धः प्राणो भवति। तस्मिन् रासपञ्चाध्यायी जीवो भवति इति  प्रवदन्ति। सैव ब्रह्मविद्या। 

रासपञ्चाध्यायीं आधारीकृत्य भगवतः रासक्रीडां स्वपुरतः दर्शयित्वा जयदेवः गीतगोविन्दकाव्यं चकार। स्वामी नारायणतीर्थवर्यः कृष्णलीलातरङ्गिणी व्यरचयन्।

रसो वै सः इति वेदाः वर्णयन्ति। तां रासलीलां श्रुण्वन्तः कीर्तयन्तः वयमपि तं आनन्दामृतरसपानमत्ताः भवेम। 
       -🌷 बाला... 🙏✍️

No comments:

Post a Comment