Friday, November 16, 2018

Bhima -Sanskrit article

*ईश्वरनिश्चयः*

एकदा भीमसेनः वनविहारं कुर्वन् आसीत्। मार्गे तेन एकं दारुणं दृश्यं दृष्टम्। एका मृगी अतीवप्रसव-वेदनाम् अनुभवन्ती भूमौ पतिता आसीत्। पार्श्वे एकः निषादः मृगीं लक्षीकृत्य बाणं प्रयोक्तुं सज्जो भूत्वा तिष्ठति स्म।  अपरस्मिन् पार्श्वे अतीव बुभुक्षाया एकः सिंहः मृग्या उपरि आक्रमणार्थम् उद्युक्तो भवति स्म। अस्यां विषमावस्थायां भीमस्य हृदयं करुणया द्रवीभूतं किमपि कर्तुम् अशक्नुवन् सः मृग्याः रक्षणाय भगवन्तं कृष्णं प्रार्थितवान्। तत् क्षणे घोरः मेघनादः जातः। अविचारितध्वनिं श्रुत्वा भीतस्य निषादस्य हस्तात् बाणः तीव्रवेगेन निर्गतः बाणः तु सिंहस्योपरि पतितः सिंहः मृतः। तदानीमेव मेघस्फोटनात् अतिवृष्टिर्जाता जलप्रवाहस्य कारणतः निषादः अगाधे गर्ते पतितश्च। एवं मृगी शावकः च रक्षणं प्राप्तवन्तौ!। ईश्वरस्य निश्चयबलम् अनुभवन् मुदितः भीमसेन:  कृष्णं नत्वा अग्रे जगाम।। 


- सुनीश् नम्बूतिरि।।

No comments:

Post a Comment