Friday, October 26, 2018

Shall I give my dress to needy -Sanskrit joke

स्थूला पत्नी :- मम पुरातनानि वस्त्राणि अहं दानरूपेण कस्मायपि प्रेषयामि वा?

पतिः :- रे क्षिप तानि  वस्त्राणि, किं तेषां समर्पणेन?

पत्नी :- पतिवर्य, जगति बहवः क्षुधिताः, तृषार्ताः महिलाः सन्ति, यासां सकाशं अन्नस्य अभावः अस्ति, तासु कापि तानि वस्त्राणि धारयिष्यति।

पतिः :- तव आकारस्य वस्त्राणि यस्याः अङ्गे सम्यक् सङ्गच्छेरन् सा महिला तु बुभुक्षिता, पिपासाकुला तु नैव भवेत्, प्रत्युत तस्याः सकाशम् अन्नस्य तु वैपुल्यम् एव भवेत्।


👉पतिः गृहात् पलायितवान् अस्ति ! 

😉😉😄

No comments:

Post a Comment