Tuesday, September 4, 2018

My motherland-Sanskrit poem

Courtesy: Sri. Deva Budheliya 
🙏🏻मम मातृभूमिः 🙏🏻*

फलदा नर्मदा सदैव खलु सुखदा। 
नूनं मम मातृभूमिः सर्ववल्लभा।। 

अत्राहर्निशं खलु गर्जन्ति सागराः। 
 गगनस्पर्शिनः तिष्ठन्ति पर्वताः।। 
चतुर्दिशि वहन्त्यजस्रं निम्नगाः।  
नूनं मम मातृभूमिः सर्ववल्लभा।। 

विलसन्ति सर्वत्र कमनीयाः लताः। 
वृक्षास्तु खलु धरायाः रोमरूपिणः।। 
मधुरैः स्वरैः कूजन्ति कानने खगाः।। 
नूनं मम मातृभूमिः सर्ववल्लभा।। 

रामकृष्णकौतुकैः पुण्येयं धरा। 
ऋषितपोभिः जातास्ति वै पूता।। 
वन्दनीयाः खल्वाचार्यपरम्पराः।
नूनं मम मातृभूमिः सर्ववल्लभा।।

कठिनैः परिश्रमैः प्राप्ता स्वतन्त्रता। 
बलिदानं दत्तवन्तः तदर्थं कोटिजनाः।। 
वयमपि भवामः राष्ट्रहिताय तत्पराः। 
नूनं मम मातृभूमिः सर्ववल्लभा।।

No comments:

Post a Comment