Tuesday, September 4, 2018

Dharma & India -Sanskrit article

☘☘☘☘☘☘☘☘☘☘

प्रत्येकं राष्ट्रस्य एकं विशिष्टं जीवनध्येयम्। यथा इङ्ग्लण्डदेशस्य वाणिज्येन धनप्राप्तिः। यद्यपि तैः सैन्यशक्त्या साम्राज्यनिर्मितिः कृता तथापि एतद्ध्येयं तेषां सर्वक्रियाकलापेषु अन्तर्निहितम्। जर्मनराष्ट्रस्य राजसत्ता। 

*तथा भारतस्य ध्येयं धर्मः,अतीन्द्रियानुभूतिः वा।* तन्निष्पादनार्थमेव भारतीयैः सम्पूर्णराष्ट्रियजीवनस्य रचना पूर्वं कृता आसीत्।

एतदेव अस्माकम् ऐकात्म्यसूत्रम्।

भारतीयैः पूर्वं भौतिकप्रगतिरपि बहु साधिता आसीत्।तथापि सापि धर्मजीवनानुकूला एव आसीत्।

एतदेव अस्माकं बलस्रोतः। 

मध्यकाले तद्ध्येयं विलुप्तमिवाभवत्। तेनैव भारतस्यावनतिः जाता। 
अद्यतनीयाः बह्व्यः समस्याः उद्भूताः अस्य मध्यवर्तिजीवनांशस्य तिरोधानात्।

सर्वाः समस्याः बलाभावादेव उद्भवन्ति। अस्माकं समीपे उपदेशः,समस्योपायाः चिन्तनस्तरे सन्त्येव तथापि तेषां क्रियान्वयनार्थमावश्यकं वैयक्तिकं तथा सङ्घटनजनितं बलं नास्ति। 

भारतीयाः भौतिककारणेन सङ्घटिताः न भूयुः कदापि। यद्यपि कदापि भूयुः  तथापि तत्सङ्घटनम् अल्पजीवि।

*धर्मेणैव भारते समाजरचना,सुशासनम् अनुशासनं च।*

यद्यपि अस्माभिः आधुनिकविज्ञानाधारेण बहु *प्रगतिः* साधिता--कृष्युत्पन्नं वर्धितं,दुग्धक्रान्तिः जनिता,भौतिकसंसाधनानि उत्पादितानि तथापि भौतिकसुखानां वैपुल्येन समाधानं न जनितम्। यतो हि राष्ट्रजीवनस्य  धर्मरूपमध्यवर्त्यंशं वयं त्यक्तवन्तः।

एषा धर्मलक्ष्यस्वरूपा अतीन्द्रियानुभूतिः केवलं न कल्पनाविलासः। प्रत्युत असङ्ख्यातर्षीणां  सतां वा  स्वानुभूतिः । तेनैव अन्तिमं समाधानं सुखं च। 

*भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे।*

एषा या अतीन्द्रियात्मानुभूतिः तदनुकूलो व्यवहारः जीवनयापनं च धर्मः।

तेनैव सर्वप्रकारिका धारणा --समाजस्य वैयक्तिकजीवनस्य वा --सम्भवति।अतः एवोक्तं--

*धारणाद्धर्ममित्याहुर्धर्मो धारयते प्रजाः।*
*यत्स्याद्धारणसंयुक्तं स धर्म इति निश्चयः।*

पिण्डानुसारं कालानुसारं च धारणानुकूलतत्त्वानि भिद्यन्ते।
अतः--
*अन्ये कृतयुगे धर्माः त्रेतायां द्वापरेsपरे।*
*अन्ये कलियुगे नृणां युगह्रासानुरूपतः।।*

अतः धर्मस्य बाह्यरूपं देशकालपिण्डादिभिन्नतया भिद्यते। आन्तरं रूपम् अतीन्द्रियानुभूतिरूपं सर्वत्र सर्वदेशेषु सर्वकालेषु समानमेव।

अतः अस्माकं लक्ष्यं--यः भारतीयधर्मः तस्य बाह्यरूपं आधुनिककालवैज्ञानिकपद्धत्यनुकूलं रचनीयम्। 

तदर्थमेव संस्कृतं साधनभूतम् यतो हि तेनैव पूर्वधर्मस्वरूपज्ञानं सम्भवति।

अतः एव संस्कृतप्रसारं कृत्वा स्वधर्मज्ञानं जनेषु जनयित्वा तद्धर्मम् आधुनिककालानुकारिणं विधास्यामश्चेत् सर्वसमस्यानिवृत्तिरित्यतः वयं संस्कृतानुरागिणः प्रयतामहे।

इत्यलम्।


🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩

No comments:

Post a Comment