Friday, September 7, 2018

Husband and wife-Periyavaa-Sanskrit essay

Courtesy: Smt.Baala Chiraavuri 
*भार्या_भर्ता*

भार्यां उद्दिश्य तयोरनुबन्धविषयमनुलक्ष्य च महास्वामिनःइत्थं अवोचन्।

वेदप्रतिपादितं कर्म अवश्यं आचरणीयम्। एतदर्थं मानवःब्रह्मचर्याश्रमादनन्तरं अन्यस्याःसहायं अवश्यं अपेक्षणीयः। सा सहायका तुभ्यं भगवद्दत्तबहुमानमेव। तत् बहुमानं कदापि विच्छेदनं न भवति। तस्याःप्रयोजनं केवलं त्वत्पचनार्थं त्वदिन्द्रियाणां तृप्तिं प्रदातुमेव नस्ति। तां धर्म-पत्नी यज्ञ-पत्नी इति च शास्त्राणि कीर्तयन्ति। केवलं धर्माचरणार्थं सा भर्तृगामिनी भवेत्। भर्तारं प्रति धर्मानुरक्तिकल्पनं तस्याः मुख्यकर्तव्यं भवति। धर्मपत्नीरूपेण धर्माचरणे स्वभर्तृनिकटे एव वर्तेत्। मानवसंक्षेमार्थं क्रियमाणेषु यज्ञयागादि क्रतुषु सा भर्तारं अनुगम्यमाना सती तस्मै सहाय्यं करणीयं भवेत्। 

सा केवलं स्वभर्त्रे पचित्वा तस्यै इन्द्रियसुखं ददाति चेदपि तत् प्रपंचक्षेमाय एव भवति। कथमित्युक्ते सा केवलं स्वभर्तारमुद्दिश्य एव पचनं न करोति। तस्याः पचने अतिथयः अन्नार्ताः पशुपक्ष्यादय अपि आधारिभूताःभवन्ति। अनेन विधिना तस्याः अतिथिसेवनं वैश्वदेवञ्च कारयतः। तस्याः सन्ततिः नहि केवलं भर्तृसुखफलम्। वैदिकधर्मोद्धरणार्थं सा प्रसविष्यति। सन्ततिपालनमपि भविष्यद्धार्मिकप्रयोजनमुद्दिश्य एव। विश्वस्मिन् कोsपि धर्मःविवाहव्यवस्थायां एतादृशं लक्ष्यं न  आपादयति।

सनातनधर्मे स्त्रीपुरुषसम्बन्धःकेवलं प्रापञ्चिकविषयभोगार्थं नास्ति। तस्य सम्बन्धेन आत्मोन्नतिः मानवोद्धरणं च लभ्येते। इतरमतेष्वपि दैवं साक्षीकृत्यैव विवाहं प्रचलति। परन्तु अस्माकं विवाहव्यवस्थादृश्या विशिष्टा न भवति। अस्माकं सनातनधर्मे विवाहो नाम भर्तारं उत्तमस्थितिं प्रापयमानां भार्यायै परिपूर्णत्वप्रसादनमेव । एतादृशी महोन्नतव्यवस्था इतरसंप्रदायेषु नास्त्येव। इतरदेशेषु स्त्रीपुरुषसंबन्धःकेवलं कुटुम्बपरिमितं अथ वा सामाजिकप्रमेयमनुसृत्यैव भवति।  किन्तु अत्र तयोर्मध्ये आत्संबन्धो भवति। अयमनुबन्धोsपि प्रापञ्चिकविषयेभ्यः आत्मानं दूरीकृत्य आत्मोन्नतिप्राप्यर्थमेव भवतु। अस्मिन् संबन्धविच्छेदनं इत्यस्य पदस्य पथमेव नास्ति। तत् स्मरणमपि पापं भवति।

त्रयः संस्काराः मिळित्वैव विवाहसंप्रदायः आविर्बभूव। प्रथमं- भवति वेदाध्ययनादनन्तरं पुरुषाय सखीं सहायकां च संसिद्धीकरणम्। एवं सहवर्तनं केवलं गृहावसरार्थमेव नस्यात्। पुरुषस्य वैदिकधर्माचरणे अपि सहकारी भवेत्। द्वितीयं- भवति समीचीनव्यक्तित्ववर्तनशीलसन्तानजन्मदायित्वम्। तेभ्यःतद्वंशवैदिकसंस्कृतिः परिपुष्टा भवति। सा सन्ततिः समीचीनव्यक्तित्वेन वर्धयित्वा संघोपकारं करिष्यति। तृतीयं भवति- स्त्रियै प्रापञ्चिकस्थितेः विमोक्षणम्। आत्मोन्न्तिं सम्यक् अप्राप्यमानं भर्तारं तस्य कर्मानुसारेण भार्या तं चालयति। तथा क्रियते चेत् सा भर्तारं संपूर्णं प्राप्य  तस्मादपि च उत्तमास्थितिं प्राप्स्यति। चतुर्थं भवति- उपरि प्रोक्त त्रिस्रेभ्यः विषयेभ्यः विशृङखलतया प्रवृत्तमानानां इन्द्रियनिग्रहणम्।

किन्तु संप्रति वयं उपरि प्रोक्त विषयत्रयं विस्मरामः। अवशिष्टः चतुर्थः विषयः एक एव शारीरकसुखं उत वा इन्द्रियसंखमेव अवधाने अस्ति। सर्वदापि असत् शरीरं प्रति सुखमेव कल्प्यते। भवन्तःमत्सूचनामनुसृच्य शास्त्रोक्तरीत्या अत्युन्नत आदर्शार्थं  सशास्त्रीयोद्वाहं कुर्वन्ति चेत् आत्मोन्नतिं अवश्यं प्राप्स्यन्ति। चन्द्रमौळीश्वरः वः रक्षतु!

बालस्तावत्क्रीडासक्तः
 तरुणस्तात् तरुणीसक्तः।
वृद्धस्तावत् चिन्तासक्तः
परमे ब्रह्मणि कोsपि न सक्तः।।

कञ्चिपरमाचार्यवैभवात् स्वीकृत्य अनूदितम्......

🙏🌷बाला... ✍

No comments:

Post a Comment