Wednesday, September 12, 2018

Don't use RIP -Sanskrit article

RIP (Rest in Peace)

    व्हाट्सअप्प मध्ये कस्मिन्नपि समूहे यदा निधनवार्ता प्रसृता जाता तदा प्रायश: बहवः सदस्या: RIP इति लिखित्वा,तत् योग्यमयोग्यं वा अज्ञात्वा शोकप्रकटनं कुर्वन्ति।कदाचित् तत् सुविधाजनकं अथवा टंकणसरलम्। अथवा मेषचलनम्?(भेडचाल)
     किं नाम RIP? शांत्या आरमतु! इति भावः। यस्मिन् धर्मे मृतकस्य अग्निसंस्कारो न भवति। मृत्तिकायां मृतशरीरस्य निक्षेपणं भवति। प्रलयदिने (कयामत का दिन) मृतकस्य मुक्तिर्भवतीति तेषां श्रध्दा। अतः तेभ्यः RIP इति योग्यम्। परं हिन्दुधर्मे मृतदेहस्य अग्निसंस्कारो भवति। हिन्दुधर्मावलंबिनः पुनर्जन्मनि विश्वसन्ति। क्रियमाण-संचित-प्रारब्धचक्रेण जीवः बद्धः। तथा च मृतशरीरात् मुक्तात्मा पुनः संचितानुसारेण शरीरं प्राप्य अग्रिमजन्मनि प्रारब्धभोगान् भुङ्क्ते। अतः हिन्दुधर्मानुसारं आत्मा नैव कदापि आरमति। न म्रियते च। जन्मान्तरानन्तरं यदा प्रारब्धकर्म शून्यायते तदा ब्रह्मणि विलीयते। अतः  यदा को$पि म्रियते तदा वयं वदामः **आत्मा सद्गतिं प्राप्नोत्।** न तु RIP! तर्हि निधनानंतरं मृतकस्य धर्ममान्यतामनुसृत्य शोकसंवेदनाप्रकटीकरणं भवेदिति मे मतिः। 


मानसी दीक्षित

    

No comments:

Post a Comment