Wednesday, September 12, 2018

Mahakaaleswar -Sanskrit sloka

*ॐ श्री महाकालाय नमोनमः ॥*
🕉🌹🌳🌷😊🙏🌷🌳🕉
*अवन्तिकायां विहितावतारं*
*मुक्तिप्रदानाय च सज्जनानाम् ।*
*अकालमृत्योः परिरक्षणार्थं*
*वन्दे महाकालमहासुरेशम् ॥*
🌷🌷🌷🌷🌷🌷🌷🌷🌷

           *🌹कुलीनेभ्यः अपवर्गं दातुं येन अवन्तिकापुर्याम् अवतारः हितः अस्ति सः महाकालस्य नाम्ना विश्रुतः महादेवः अकालमृत्योः परित्राणार्थं मया प्रणम्यते ॥*

           🌴==संतजनों को मोक्ष देने के लिये जिन्होंने अवन्तिकापुर में अवतार धारण किया है उन महाकाल नाम से विख्यात महादेवजी को मैं अकालमृत्यु से बचने के लिये नमस्कार करता हूँ ॥
🌴🌴🌴🌴🌴🌴🌴🌴🌴

*१~महाकालः उज्जयिन्याम् अवतारं हितवान् अस्ति ।*
*२~सः सज्जनेभ्यः मोक्षं प्रददाति ।*
*३~सः महाकालस्य नाम्नः महादेवः अस्ति ।*
*४~अकालमृत्योः महाकालः अस्मान् पाति ।*
*५~वयं भगवन्तं महाकालं नमामः ॥*

*जयतुसंस्कृतम् ॥ जयतुभारतम् ॥*

No comments:

Post a Comment