Courtesy: Sri.Vraja Kishore
महतो दु:खस्य विषयोSयं राष्ट्रभक्तये समर्पितात्मनां आभारते सर्वप्रियाणां भारतीसत्पुत्राणां राष्ट्रगौरवभूतानां न: पूर्वप्रधानमन्त्रिणामद्य परलोकप्रयाणमभवत् । तद्गौरवगाथां गातुं शब्दा एव न स्फुरन्ति मे बुद्धौ । तेषामात्मन: शान्तिर्भवेदिति भवन्तु शान्त पुरुषाॉः भवन्तु स्वार्थ त्यागिनः।
*भारत रत्न अटल बिहारि वाजपेयी*
*सदृशः न भूतो न भविष्यति* ।।
अटलस्मृतिपञ्चकम्
****************
(१)
यो राजनीतौ पटुतामवाप्य
प्रधानमन्त्री समभूत् प्रसिद्धः।
तं वाजपेयिपुरुषं महान्तम्
अजातशत्रुम् अटलं नमामि।।
(२)
भद्रः सुशीलः रमणीयरूपः
विशिष्टवक्ता स्थिरबुद्धियुक्तः।
नम्रः कुलीनः गुणराशिपूर्णः
अजातशत्रुम् अटलं नमामि।।
(३)
भद्रैश्च भद्रः सरलैश्च नम्रः
विज्ञैश्च विज्ञः सुजनैश्च शिष्टः।
शक्तैश्च शक्तः सह यस्य नीतिः
अजातशत्रुम् अटलं नमामि।।
(४)
प्रज्ञां कवित्वं दृढचित्तभावं
वाक् चातुरीं देशविकाशनीतिम्।
विरोधिनो यस्य विलोक्य नम्रा
अजातशत्रुम् अटलं नमामि।।
(५)
देशस्य दुःखेन विशेषदुःखी
सदा प्रयत्नी जनकामसिद्ध्यै।
शून्यात् हि तस्याखिलशून्यलोकाः
अजातशत्रुम् अटलं नमामि।।
(श्रीव्रजकिशोरः)
No comments:
Post a Comment