Thursday, August 16, 2018

Samavartanam & Vivaham - A detailed research in Sanskrit

Courtesy: Dr.Korada Subrahmanyam

नमो विद्वद्भ्यः

समावर्तनम् (स्नातकम् ) and  विवाहः ------ व्यवहित or अव्यवहित

तैत्तिरीयोपनिषत् -- तैत्तिरीयसंहिता -- कल्पशास्त्रम् (गृह्यसूत्रम्) -- पूर्वमीमांसा

There are two questions --

whether विवाह is certainly to be performed after समावर्तनम् 

whether , if acceptable , विवाह has to be done immediately after स्नातकम्  or there can be some व्यवधि (pause)

स्नातकव्रतम् is of three types --

व्रतस्नातकम् -- वेदव्रत only is completed and the student comes out of गुरुकुलम् ।

विद्यास्नातकम् -- the student completes वेदाध्ययनम् and comes out of गुरुकुलम् ।

उभयस्नातकम् -- having performed the वेदव्रतम् , completed वेदाध्ययनम् till अर्थज्ञानम् , the student comes out of गुरुकुलम् ।

गुरवे तु वरं दत्त्वा स्नायीत तदनुज्ञया ।
वेदव्रतनि वा पारं नीत्वा ह्युभयमेव वा ॥  पराशरस्मृतिः - आचारकाण्डः

स्नानोपलक्षिता चात्र निवृत्तिर्गुरुवेश्मनः -- श्लोकवार्तिकम् , प्रत्यक्षसूत्रम् - 100

विवाह after स्नातकम् ----

आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः -- तैतिरीयोपनिषत् - शिक्षावल्ली

Having offered गुरुदक्षिणा , get married and see that you won't cut off the chain of progeny .

स्नात्वा भार्यामुपेयात् ।

वेदं पारं नीत्वा इत्यर्थवगतिरपि विवक्षिता ।

वेदानधीत्य वेदौ वा वेदं वापि यथाक्रमम् 
अविप्लुतब्रह्मचर्यो गृहस्थाश्रममावसेत् ॥  -- मनुस्मृतिः , 3-2

अधीत्य चाधिगम्यार्थं ततः स्नायात्  ।

जायमानो ह वै ब्राह्मणः त्रिभिः ऋणवान् जायते ब्रह्मचर्येण ऋषिभ्यः यज्ञेन देवेभ्यः प्रजया पित्रुभ्यः -- तैत्तिरीयसंहिता ।

अनधीत्य द्विजो वेदान् अनुत्पाद्य तथा सुतान् ।
अनिष्ट्वा चैव यज्ञांश्च मोक्षमिच्छन् व्रजत्यधः ॥  मनुस्म्रुतिः 6-36

वेदमधीत्य स्नायात् गुरुकुलात् मा समवर्तिष्ट इत्यदृष्टार्थतापरिहरायैव -- शाबरभाष्यम् , 1-1

The above are two sentences - says Kumarila ( श्लोकवार्तिकम् - प्रत्यक्षसूत्रम् , 105)


गुरुगेहदनावृत्तः स्नातको  हि न कथ्यते ।
तत्परत्वविधानाच्च न तवत् दारसङ्ग्रहः ॥  श्लो वा , प्रत्यक्ष . 103-104

All the above stand for विवाह after समावर्तनम् । No insistence on performance of समवर्तनम् and  विवाह without pause .


वेदमधीत्य स्नास्यन् प्रागुदयात् व्रजं प्रविश्य अन्तर्लोम्ना चर्मणा द्वारमपिधाय आस्ते -- आपस्तम्बगृह्यसूत्रम् , 5-12-1

रतिना सम्भाष्य यथार्थं गच्छति  --- आप् गृ सू , 5-12-14

Having discussed with a friend , the student would go to an आश्रम (गार्हस्थ्यम् , वानप्रस्थम् , संन्यासः ) as he likes .

सुदर्शनतात्पर्यदर्शनम् --

रातिः मित्रम् , रमयतीति व्युत्पत्त्या । तेन सह विस्रब्धः संभाष्य आत्मशक्त्याद्यनुरूपं धर्मादिकं विचार्य निश्चित्य । यथार्थं गच्छति तेन रातिना सह
यो'र्थः धर्मो मोक्षो वा साध्यत्वेन अवधृतः तदनुरूपम् आश्रमं गार्हस्थ्यं मौनं वा प्रतिपद्यते । एवं च ब्रह्मचर्यादेव प्रव्रजतो'पि सम्भाषणान्तं स्नानं
कृत्वैव प्रव्रज्या ।

Therefore one cannot claim that both समावर्तनम् and विवाह are अव्यवहित । May be it is their convenience .

But there is one सूत्रम् , which  they may quote in their support --

अथ एतदपरं तूष्णीमेव तीर्थे स्नात्वा तूष्णीग्ं समिधम् आदधाति  -- आप गृ सू 5-13-1

This सूत्रम् is for a person has got a विवाह fixed immediately after स्नातकम् । 

Just tame another example prevalent in the society -- गृहप्रवेश and सत्यनारायणव्रतम् 

ग्रुहप्रवेश is a नित्यकर्म whereas सत्यनारायणव्रतम्  is a काम्यकर्म । Both are different .

I did not perform सत्यनारायणव्रतम् after गृहप्रवेश ।

A मुमुक्षु has to give up काम्यकर्माणि -- 

काम्यानां कर्मणं त्यागं संन्यासं कवयो विदुः -- भगवद्गीता - 18

नमो विद्व॒द्भ्यः

 The problem arising is about - अनाश्रमी न तिष्ठते दिनमेकमपि द्विजः। Yajnavalkya Smruti, Brahma Sutra Shaankara Bhashya quote this Vachana of Daksha.
                                                                                                 --------- Vidvan Vamshikrishna Ghanapathi

सुदर्शनाचार्य discusses the above issue - अनाश्रमी न तिष्ठेत् .....---

सर्वर्तवो विवाहस्य इति सूत्रात्  यदा  दक्षिणायने विवाहः तदा समावर्तनमपि तत्रैव - अन्यथा उदगयने समावर्तने अनाश्रमी न तिष्ठेत् इति विरोधः स्यात् ।

 सर्वर्तवो विवाहस्य ( सर्वर्तवः - ' ऋत्यकः ' पा 6-1-128 इति पाक्षिकः प्रकृतिभावः) - is आपस्तम्बगृह्यसूत्रम् 

विवाह can be performed during all ऋतुs ( उपनयनम् is during उत्तरायणम् only) .उदगयनम् = उत्तरायणम् ।

The purport is that - since all ऋतुs are acceptable for विवाह , one has to decide well in advance as to which आश्रम
he wants to embrace - गृहस्थवानप्रस्थसंन्यासाश्रमाः ( ब्रह्मचर्यादेव प्रव्रजेत् etc) and if he wishes to go to गृहस्थाश्रम then he
has to arrange the विवाह ,  with the help of friends , parents and गुरु , and see to it that both स्नातकव्रतम् and विवाह
fall in the same - either उत्तरायणम् or दक्षिणायनम् ।

समावर्तनम् in उत्तरायणम् and विवाह in दक्षिणायनम् or vice versa is not acceptable as it would offend the नियम ordained by 
धर्मशास्त्रम् - अनाश्रमी न तिष्ठेत् दिनमेकमपि द्विजः ।

Any violation of the above नियम would attract कृच्छ्रव्रतम् as प्रायश्चित्त (penance).

The complete स्वरूपम्  of above referred आपस्तम्बगृह्यसूत्रम् is here --

सर्वर्तवो विवाहस्य , शैशिरौ मासौ परिहाप्य उत्तमं च नैदाघम्  ---- आ गृ सू , खं 2 सू 12

All ऋतुs for विवाह , except माघ , फाल्गुन and आषाढ ।

शैशिरौ = माघफाल्गुनमासौ ; उत्तमं नैदाघम् = आषाढः ; उत्तमम् = last ; परिहाप्य -- ओ हाक् त्यागे  ।

सुदर्शनाचार्य in गृह्यतात्पर्यदर्शनम् --

ऋतव इत्यनेन लक्षणया मासा एव विधित्सिताः नर्तव इति कुतो'वगम्यते ? उच्यते - शैशिरौ मासाविति मासपर्युदासात् , अन्यथा विधिपर्युदासयोः
एकविषयत्वात् , लघुत्वाच्च शिशिरं परिहाप्येति ब्रूयात् ।

धन्यो'स्मि

No comments:

Post a Comment