*संस्कृतसप्ताहस्य हार्दिक्यः शुभकामनाः*
*श्रावणशुक्लद्वादशीतः भाद्रपदकृष्णतृतीया पर्यन्तम् ।*(23 अगस्ततः 29 अगस्त 2018)
1- आगच्छन्तु अवसरेस्मिन् सर्वत्र संस्कृतस्य वायुमण्डल-निर्माणं कुर्मः
2- सर्वेषु कार्यस्थानेषु संस्कृतस्य विभन्नान् कार्यक्रमान् कुर्मः ।
3- सर्वेषु सम्पर्कितस्थानेषु संस्कृतदिनस्य आचरणं कुर्मः ।
4- सर्वेषां संस्थानानां , सङ्घटनानां च सहयोगेन संस्कृतकार्यक्रमानाम्
आयोजनं कुर्मः ।
5- संस्कृतस्य विषये विभिन्नान् लेखान् पत्र-पत्रिकाषु लिखामः ।
6- कथा-भागवत् इत्यादिषु अवसरेषु संस्कृतस्य विषये संस्कृतेन वदामः ।
7- प्रतिष्ठितैः प्रबुद्धजनैः अधिकारिभिः सह वदतु संस्कृतं स्वीकृत्य
सम्पर्कः करणीयः ।
8- *सम्भाषणसन्देशः* संस्कृत-पत्रिकायाः स्वयं सदस्यता स्वीकरणीया
अन्येषां कृते कारणीया च
9- संस्कृतेन विभिन्नस्पर्धाः , प्रतियोगिताश्च विद्यालयेषु
महाविद्यालयेशु करणीयाः, कारणीयाश्च ।
*एतानि नवसूत्राणि करणीयानि* सन्ति एतदतिरिच्य अपि बहूनिकार्याणि कर्तुं
शक्यते । *स्वविवेकेन प्रभावबलेन समर्पणभावेन च संस्कृतसप्ताहस्य आचरणं
सर्वेषु जनपदेषु सर्वेषु खण्डेषु कार्यस्थानेषु च* कुर्मः ।
संस्कृताय वयं बहुकिमपि कर्तुम् इच्छामः , द्रष्टुम् इच्छामश्च किन्तु
वयं जानीमः यत् सुप्तस्य सिंहस्य मुखे पशवः स्वयं न प्रविशन्ति.....
*उद्यमेन हि सिद्धयन्ति कार्याणि न मनोरथैः* ।
*न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः* । ।
अतः *हे संस्कृतज्ञ हे निर्भीक हे भरतपुत्र हे वीर*
*सदा स्मर चरैवेति चरैवेति*
*सदा वद संस्कृतं सर्वेषां संस्कृतं सर्वत्र*
*ध्यानं कुरु संस्कृतस्य कृते जीवन, संस्कृतस्य कृते यजन ।*
भवदीया
*संस्कृतभारती, (कानपुरप्रान्तः)*
6387046835, 7376812595,9415484345
Samskritamkanpur@gmail.Com
फेसबुक
https://m.facebook.com/Samskritabharatikanpurprant/
*संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम् ।*
No comments:
Post a Comment