Wednesday, August 29, 2018

Raksha bandan -Sanskrit essay

Courtesy: Sri Chaturvedi
रक्षाबन्धनम्

रक्षाबन्धनं श्रावणमासस्य शुक्लपूर्णिमायाम् आचर्यते । भ्रातृभगिन्योः
पवित्रसम्बन्धस्य सम्मानाय एतत् पर्व भारतीयाः आचरन्ति । निर्बलतन्तुना
बद्धः भ्रातृभगिन्योः सबलसम्बन्धः भारतीयसंस्कृतेः गहनतायाः प्रतीकः ।

मानवसभ्यतायां विकसिताः सर्वाः संस्कृतयः प्रार्थनायाः माहात्म्यं
भूरिशः उपस्थापयन्ति । आदिभारतीयसंस्कृतेः विचारानुगुणं भ्रातुः रक्षायै
भगिन्या ईश्वराय कृता प्रार्थना एव रक्षाबन्धनम् ।

भगिनी ईश्वराय प्रार्थनां करोति यत्, "हे ईश्वर ! मम भ्रातुः रक्षणं
करोतु" इति । एतां प्रार्थनां कुर्वती भगिनी भ्रातुः हस्ते
रक्षासूत्रबन्धनं करोति । भगिन्याः हृदि स्वं प्रति निःस्वार्थं प्रेम
दृष्ट्वा भ्राता भगिन्यै वचनं ददाति यत्, "अहं तव रक्षां करिष्ये" इति ।
ततः उभौ परस्परं मधुरं भोजयतः ।

भगिन्या ईश्वराय स्वरक्षणस्य या प्रार्थना कृता, तस्याः प्रार्थनायाः
कृते भगिनीं प्रति कृतज्ञतां प्रकटयितुं भ्राता भगिन्यै उपहारम् अपि
यच्छति । भ्रातृभगिन्योः सम्बन्धस्य एतत् आदानप्रदानम् अमूल्यं वर्तते ।

No comments:

Post a Comment