Friday, July 20, 2018

Vishwa Sanskrit family

सहृदया:! प्रमुदितमनसा संसूच्यन्ते भवन्तो यद्भवत्सुहृदा दीपकवात्स्येन        
मासेSस्मिन्  २०त: २३जूनपर्यन्तं #विश्वसंस्कृतकुटुम्बकम्" इत्यभिधेये आमुखपटलसमवाये आयोजितयो: स्पर्धयो: निबन्धलेखनस्पर्धायां "योग: कर्मसु कौशलम् " इति शीर्षकमवलम्ब्य लिखितो लेख: प्रथमेन स्थानेन सभाजित: ।
           तत्र प्रथमनिर्णायका: दर्शका आसन् अन्येSपि प्रतिष्ठिता: नैकशास्त्रनिष्णाता: आचार्या: विशिष्टनिर्णायका: आसन् ।
             साम्प्रतं मदीयसुहृद: प्रतियोगिपरीक्षासिद्धतायै व्यापृता: सन्तीति कृत्वा मनसि कदाचिद्विचारस्समागतो यन्मदीयाय लेखाय अङ्कान् के प्रदास्यन्ति । परं सुरभारत्याम्मम दृढ़विश्वास: आसीत् । अत: लेखो लिखित: ।लेखनात्परं मया आमुखपटले बहुत्र संस्थापित: । तत्र प्रथमे दिवसे एव ५० त: अधिकं संविभजनम्(Share) अभवत्  इति मदीयलेखस्य प्रथमा सफलता ततश्च ह्यस्तनरात्रौ समागते परिणामे प्रथमेन स्थानेन सभाजित: इति द्वितीयसफलता मातु: सुरभारत्या: सेवनत्वादभवदिति मन्मति: ।प्रथमनिर्णायकेभ्यस्समेभ्यो  दर्शकेभ्यो विशिष्टनिर्णायकेभ्य:  आयोजकेभ्य: पुरस्कारप्रायोजकेभ्य: साधुवचांसि समर्प्यन्ते । समेषां प्रतिभागिनामभिन्दनं क्रियते यतस्तैरपि मम लेख: प्रोत्साहित: । नास्तीयं यदीया सफलता वर्तते चेयं सुरभारतीसमुपासकानां सफलता । यत: तेषामाशीर्वचोभि: सान्निध्ये एव मया किमपि सम्पाद्यते ‌।
अत: "स्वच्छभाषाभियानम्" "सुरभारतीसमुपासका:" इति परिवारद्वये विद्यमानेभ्य: आचार्येभ्य: गणसदस्येभ्यश्च सफलतेयं समर्प्यते ।
 जयतु संस्कृतम् जयतु भारतम्।
जानातु संस्कृतं जानातु भारतम्।
संस्कृतं भारतम् समर्थभारतम् ।
#स्वच्छभाषाभियानम्
#सुरभारतीसमुपासका:
#दीपकवात्स्य:

विश्वसंस्कृतकुटुम्बकम्, संस्कृतप्रियाणां परिवारः, आगच्छन्तु सुस्वागतम् 🙏

No comments:

Post a Comment