Courtesy:Smt.Baala Chiraavuri
*जाबालिरुवाच-*
गुरून् वद महाभाग वेदव्यास जगद्गुरो।
गुरूणां तारतम्यश्च कस्मात् किं फलमुच्यते।। 1
*व्यासउवाच*
माता पिता गुरुःश्रेयान् ज्येष्ठभ्राता पितामहः।
श्वशुरो मातुलश्चैव तथा मतामहःस्मृतः।। 2
पितुःज्येष्ठःकनिष्ठश्च भ्राता ज्येष्ठा निजस्वसा।
पितुःस्वसा जनन्याश्च स्वसागुरुजनाःस्मृताः।। 3
एतेषु हि पिता श्रेयान् गुरुरेव महागुरुः।
पिता धर्मः पिता स्वर्गः पिता हि परमं तपः।। 4
पितरि प्रीतिमापन्ने प्रीयन्ते सर्वदेवताः।
पिता यस्य क्वचिद्रुष्टो न तस्य कस्यचिद्गतिः।। 5
जपो दानं तपो होमः दानं तीर्थक्रियाविधिः।
वृथैव तस्य सर्वाणि कर्माण्यन्यानि कानिचित्।। 6
करोति सर्वदेवेशं पितरं चानुतप्य यः।
अनुतापःपितुस्तोत्रं विषं दहति यं सुतम्।
जपादि विफलं तत्र दग्धक्षित्युप्तबीजवत्।। 7
पित्रर्थे पुण्यकर्माणि कुर्यात् सर्वाणि सत्सुतः।
तेनाननुमतोऽप्येवं कुर्वन्नेवावसीदति।। 8
यत्नात्तु पितरं यस्तु कियात्पुण्यश्च कारयेत्।
स तत्पुण्यफलं कोटिगुणमाप्नोत्यसंशयम्।। 9
श्रुणु वक्ष्ये पितुःस्तोत्रं विष्णवे ब्रह्मणोदितम्।
नाभिपद्मोद्भवो येन तुष्टाव पितरं स तम्।। 10
*ब्रह्मोवाच*
ॐनमःपित्रे जन्मदात्रे सर्वदेवमयाय च।
सुखदाय प्रसन्नाय सुप्रीताय महात्मने।। 11
सर्वयज्ञस्वरूपाय स्वर्गाय परमेष्ठिने।
सर्वतीर्थवलीकाय करुणासागराय च।। 12
नमःसदाऽशुतोषाय शिवरूपाय ते नमः।
सदापराधक्षमिणे सुखाय सुखदाय च।। 13
दुर्लभं मानुषमिदं येन लब्धं मया वपुः।
सम्भावनीयं धर्मार्थे तस्मै पित्रे नमो नमः।। 14
तीर्थस्नानतपोहोमजपादि यस्य दर्शनम्।
महागौरोश्च गुरवे तस्मै पित्रे नमो नमः।। 15
यस्य प्रणामस्तवनात् कोटिशः पितृतर्पणम्।
अश्वमेधशतैस्तुल्यं तस्मै पित्रे नमोनमः।। 16
इदं स्तोत्रं पितुःपुण्यं यःपठेत् प्रयतो नरः।
प्रत्यहं प्रातरुत्थाय पितृश्राद्धदिनेऽपि च।। 17
स्वजन्मदिवसे साक्षात् पितुरग्रे स्थितोऽपि वा।
न तस्य दुर्लभं किञ्चित् सर्वज्ञतादिवाञ्छितम्।। 18
नानापकर्म कृत्वाऽपि यः स्तौति पितरं सुतः।
स धृवं प्रविधायैव प्रायश्चित्तं सुखी भवेत्।
पितुःप्रीतिकरो नित्यं सर्वकर्माण्यथार्हति।। 19
-- बृहद्धर्मपुराणम्।
🙏🌷बाला...✍
No comments:
Post a Comment