Wednesday, July 4, 2018

Simple sentences in sanskrit-5th vibhakti

पञ्चमीविभक्तिः।

          यस्मात् वियोगः भवति , यस्मात् यत् श्रेष्ठतरं भवति , यत् हेतुः इत्यर्थे भवति तत् पञ्चमी विभक्तौ भवति । 'वृक्षात् फलं पतति' इत्यस्मिन् वाक्ये फलस्य वृक्षात् वियोगः भवति , अतः वृक्षशब्दस्य पञ्चमी विभक्तिः ।

१.      भटः अश्वात् पतति । (विश्लेषः)

२ .     राकेशः रमेशात् सुन्दरः अस्ति । (श्रेष्ठत्वम्)

३ .     कामात् क्रोधोsपि जायते । (हेतुः)

४ .     वृक्षात् पुष्पाणि पतन्ति ।

५ .     नद्यः हिमालयात् प्रभवन्ति ।

६ .     शकटः नगरात् बहिः गच्छति ।

७ .     इदं रेल्यानं कन्याकुमार्याः कर्णाटकं गच्छति ।

८ .     जलात् वैद्युतिम् उदपादयत् ।

९ .     मत् बलवत्तरः कः ?

१० .   छात्राः विद्यालयात् सुसंस्कृतिं लभन्ते ।

११ .   सर्वे सूर्यात् एव ऊर्जं लभन्ते ।

१२ .   चोराः आरक्षकात् बिभेति ।

१३ .   कस्तूरिमृगात् कस्तूरी लभते ।

१४ .   वेदेभ्यः सर्वं विज्ञानं प्राप्तुं शक्यते ।

१५ .   अहं रात्रौ गृहात् बहिः न गमिष्यामि ।

१६ .   त्रिचक्रिकायाः शीघ्रता लोकयानस्य अस्ति ।

१७ .   कृष्णात् रामः श्रेष्ठः अस्ति ।

१८ .   मेघात् वृष्टिः वर्षिष्यति ।

१९ .   नद्यः सरसः अधिकं प्रवहन्ति ।

२० .   गजाः सरसः पङ्कजानि उत्पाटयन्ति।

२१ .   देवाः ब्रह्मणः वरं लभन्ते ।

२२ .   बालकः मातुः प्रथमशिक्षां लभते ।

२३ .   दरिद्राः दातृभ्यः धनं प्राप्नुवन्ति ।

२४ .   यात्रिकः नावः अधः अपतत् ।

२५ .   तारकासुरः भगवतः वरं प्राप्य देवान् अपीडयत् ।

No comments:

Post a Comment