Wednesday, July 4, 2018

Don't get angry-Sanskrit story of mongoose and child

अस्त्युज्जयिन्यां माठरो नाम ब्राह्मणः । तस्य ब्राह्मणी बालापत्यस्य रक्षार्थं ब्राह्माणमवस्थाप्य स्नातुं गता । अथ ब्राह्मणस्य कृते राज्ञः श्राद्धं दातुमाह्वानमागतम् । तच्छ्रुत्वा ब्राह्मणः सहजदारिद्र्यादचिन्तयत् । यदि सत्वरं न गच्छामि तदान्यः कश्चिच्छ्राद्धं ग्रहीष्यति । उक्तं च
आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः ।
क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम् ।।
किं तु बालकस्यात्र रक्षको नास्ति । तत्किं करोमि । यातु । चिरकालपालितमिमं पुत्रनिर्विशेषं नकुलं बालकरक्षार्थमवस्थाप्य गच्छामि । तथा कृत्वा स तत्र गतः । ततस्तेन नकुलेन बालकसमीपमागच्छन्कृष्णसर्पो दृष्टो व्यापादितश्च । अथासौ नकुलो ब्राह्मणमायान्तमवलोक्य रक्तविलिप्तमुखपादः सत्वरमुपगम्य तस्य चरणयोर्लुलोठ । ततोऽसौ ब्राह्मणस्तं तथाविधं दृष्ट्वा मम पुत्रोऽनेन भक्षित इत्यवधार्य व्यापादितवान् । अनन्तरं यावदसावुपसृत्य ब्राह्मणस्तावद्बालकः सुस्थः सर्पश्च व्यापदितस्तिष्ठति । ततस्तमुपकारकमेव नकुलं निरूप्य विभावितकृत्यः संतप्तचेताः स परं विषादमगमत् । अतोऽहम् ब्रवीमि ।
योऽर्थतत्त्वमविज्ञाय क्रोधस्यैव वशं गतः ।
स तथा तप्यते मूढो ब्राह्मणो नकुलाद्यथा
🎉गणान्तरादुपलब्धम्🌷

No comments:

Post a Comment