Tuesday, June 12, 2018

Meaning of Dheergaayushamaan bhava - Periyavaa - Sanskrit

Courtesy: Smt bala Chiraavuri 
*दीर्घायुष्मान् भव अर्थात्*?

बहुकालात्पूर्वं महास्वामिदर्शनार्थं चतस्रःपञ्चष वा जनाः आगताः। स्वामिनं प्रति साष्टाङ्गमाचरित्वा तेषां पुरतः उपविष्टाः भवन्ति। महास्वामिनः भक्तैःसह भाषयन् उपविष्टारं तान् पण्डितान् उद्दिश्य अनेन अपृच्छन्.

"भक्ताः मह्यं नमस्कुर्वन्ति चेत् अहं तान्" नारायण नारायण" इति आशीःप्रदास्यामि। तर्हि भवन्तः गृहस्थः कथं आशीर्वदन्ति?"

वय ' दीर्घायुष्मान् भव' इति आशीः यच्छामः। यदेव सम्प्रदायमस्ति। इति अवदन्।

अर्थात् ? महास्वामिनः अपृच्छन्।

"चिरकालं सौख्येन वर्धताम्" इति अस्यार्थः।

महास्वामिनः तत्रस्थान् सर्वान् पण्डितानुद्दिश्य एवमेव पृष्टवन्तः।सर्वेऽपि तथैव समाधानं अददन्। महास्वामिनः किंचित्कालं मौनमाश्रित्य" भवद्भिः कथितःअर्थः असाधुरस्ति।"इति उक्तवन्तः।

पण्डिताः प्रश्नार्थकं अपश्यन्। ते सर्वेऽपि विद्वांसः। संस्कृतव्याकरणेषु शिरोमणयः।

संस्कृतवाक्यं " दीर्घायुष्मान् भव" इत्युक्ते अति सामन्यं सरलं वाक्यमस्ति। संस्कतपरिज्ञानं विनापि अवगन्तुं शक्नुमः। परन्तु महास्वामिनः असाधुरिति वदन्ति? इति आश्चर्यचकिताः अभूवन्।

तेषां स्थितिं ज्ञात्वा महास्वामिनः " तस्यार्थं अहं वदानि?" इत्युक्त्वा अकथयन्--

"पञ्चाङ्गेषु (तिथि वार नक्षत्र योग करण) स्थितेषु सप्तविंशति योगेषु एकः' आयुष्मान् योगः'। एकादशकरणेषु एकं 'भव करणम्'। वासरेषु 'सौम्यवासरः' एकः। यदा एताः त्रयः अर्थात्  आयुष्मान्- योगः, भव-करणम्, सौम्य-वासरः एकत्रीभूय आयास्यन्ति चेत् भूरि शुभप्रदं योगकारकञ्च भवति। अतः एतत् त्रयं एकस्मिन् दिने सम्भविष्यति चेत् यानि शुभकार्याणि सत्फलितानि प्राप्स्यन्ति तानि भवत्कृते संप्राप्यन्तु।"इति अर्थो भवति। अनेन विवरणं प्रदत्वा अनुगृहीतवन्तः महास्वामिनः।

    कञ्चिपरमाचार्यवैभवात् अनुद्य....

       🙏🌷बाला...✍

No comments:

Post a Comment