Tuesday, June 12, 2018

What is meditation -Sanskrit essay

*ध्यानं नाम किम्*

अयं प्रश्नः एकं बालकं बाधते स्म। तस्य मातापितरौ अस्य समाधानं सरलवाक्यानि उपयुज्य दातुं असमर्थौ आस्ताम्। अथैकदा बालकः मातापितृभ्यां सह _रमणमहर्षेः_ आश्रमं गतवान् तदा बालकेन स एव प्रश्नः रमणमहर्षेः पुरत उपस्थापितः।। 

तदानीं रमणमहर्षिः स्मिताननो भूत्वा बालकं पश्यन् तस्मै एकां दोशां दातुम् अनुचरान् आदिष्टवान्। ते पाकशालां गत्वा कदलीपत्रे दोशाम् आनीय तस्मै दत्तवन्तः। 

बालकः कुुतूहलेन महर्षिं दोशां च दृष्टवान् तदानीं महर्षि अकथयत्। यदा अहं *आम्* इति वदिष्यामि तदानीमेव दोशां खादितुम् अर्हसि पुनः यदा अहं *आम्* इति कथयिष्यामि तदा एकोऽपि कणम् अवशिष्टं न स्यात्। बालकः सोल्लासम् एतत् अङ्गीकृत्य *आम्* इति श्रोतुं बहुध्यानेन महर्षिमेव पश्यन् उपविशति स्म।
यदा महर्षि *आम्* इत्युक्तवान् बालकः दोशां खादितुम् आरम्भं कृतवान्। बालकः त्वरया एव खादन् आसीत् यतः पुनः *आम्* इति कथनात् पूर्वमेव दोशां पूर्णतया खादितुम् इच्छति स्म।  यद्यपि सः वेगेन दोशां खादयन्नस्ति तथापि बालकस्य श्रद्धा महर्षे उपरि एवासीत्। अन्ते दोशा किञ्चिदेव अवशिष्टा आसीत् तदानीं तदानीं बालकः दोशाखण्डं हस्ते गृहीत्वा रमणमहर्षिम् एव पश्यन् *आम्* इति श्रोतुम् अक्षमो भूत्वा उपविष्टवान्। यदा महर्षिः _आम्_ इत्युक्तवान् बालकः झटिति दोशाखण्डञ्च खादितवान्।। 

अस्याः घटनाया अनन्तरं रमणमहर्षिः बालकं प्रति पृष्टवान् एतावत् पर्यन्तं कुत्रासीत् तव श्रद्धा मयि उत दोशायाम्? 

बालकः -  उभयत्रापि! 

रमणमहर्षिः - आम्! सत्यम् त्वम् श्रद्धया मां  दोशाञ्च पश्यन् खादन् आसीः। एवम् जनः दैनदिनकार्याणि कुर्वन्नपि भगवन्तं स्मरति एतदेव _ध्यानम्_ इत्युच्यते। यथा मया पूर्वं द्विवारं प्रोक्तः *आम्* इति शब्दः सः जननमरणयोः सूचकत्त्वेन तिष्ठति । एवं सर्वैरपि स्वशक्त्यानुसारम् अनयोः जन्म - मरणयो: सन्दर्भयोः मध्ये ध्यानस्य अभ्यासं कर्तुं शक्यते। रमणमहर्षेः सरलप्रतिपादनं श्रुत्वा सर्वे विस्मिता अभवन्।।

No comments:

Post a Comment