Monday, June 25, 2018

Dik graha stotram in sanskrit

*दिग्ग्रहस्तोत्रम्*

रविः शुक्रः कुजश्चैव राहुः शनिः शशी तथा |
बुधो बृहस्पतिश्चैव दिशाधीशाः क्रमागताः ||

सूर्याय पूर्वदिग्वर्ति|ग्रहाधीशाय वन्दनम् |
आग्नेयाधिपतिं वन्दे भार्गवं शुक्रमेव हि || १ ||
कुजाय दक्षिणेशाय मङ्गलाय नमो नमः |
नैरृत्याधिपतिं वन्दे ग्रहं राहुं नमाम्यहम् || २ ||
शनैश्चर नमस्तुभ्यं पश्चिमाधिपते प्रभो |
सोमाय वायुदिग्वर्तिचंद्राय च नमो नमः || ३ ||
उत्तराधिपतिं सौम्यं बुधं वन्दे पुनः पुनः |
ईशान्यदिक्पतिं वन्दे देवगुरुं बृहस्पतिम् || ४ ||

No comments:

Post a Comment