Monday, June 25, 2018

Ashtadikpalaka stotram in sanskrit

* courtesy:Dr.krishnamoorthi 

इन्द्राद्यष्टदिक्पालकस्तुतिः*
इंद्राद्यष्टदिक्पालकस्तुतिः
(अनुष्टुभ् वृत्तम्)
इंद्रोऽग्निर्यमराजश्च निर्ऋतो वरुणस्तथा |
वायुः कुबेर ईशानो ब्रह्मोऽनन्तो दिशाधिपाः ||

नमो नमःस्सुरेंद्राय पूर्वाधिपतये नमः |
नमोऽग्नये तमोहर्त्रे तथाऽऽग्नेयाधिपाय च || १ ||
यमाय धर्मराजाय दक्षिणापतये नमः |
नैरृत्यपतये निर्ऋ|त्यै देव्यै च नमो नमः || २ ||
पश्चिमाधिपतिं वन्दे वरुणाय नमो नमः |
वायव्याधिपतिं वन्दे वायुं प्राणाधिपं पुनः || ३ ||
उत्तराधिपतिं वन्दे कुबेराय नमो नमः |
नमस्ते रुद्र शर्वेश शिवेशान्याधिपाय च || ४ ||
ऊर्ध्वदिक्पालकं वन्दे ब्रह्माणं सत्यलोकिनम् |
अनन्ताय नमस्तुभ्य|मधोलोकाधिपं प्रभुम् || ५ ||

No comments:

Post a Comment