Monday, May 28, 2018

Sishupala vadham 1st sloka in Sanskrit with meaning

Courtesy: https://maghakavyam.wordpress.com/2011/03/20/1-1/

श्रियः पतिः श्रीमति शासितुं जगज्जगन्निवासो वसुदेवसद्मनि ।
वसन्ददर्शावतरन्तमम्बराद्धिरण्यगर्भाङ्गभुवं मुनिं हरिः ।।

पदच्छेद: is as follows
श्रियः, पतिः, श्रीमति, शासितुम्, जगत्, जगन्निवासः, वसुदेवसद्मनि, वसन्, ददर्श, अवतरन्तम्, अम्बरात्, हिरण्यगर्भाङ्गभुवम्, मुनिम्, हरिः

आकाङ्क्षा is as follows
हरिः मुनिं ददर्श
मुनिं कथं भूतं? हिरण्यगर्भाङ्गभुवम्
पुनः कथं भूतं? अवतरन्तम्
कस्माद्? अम्बरात्

किं कुर्वन् हरिः? वसन्
कस्मिन्? वसुदेवसद्मनि
कथं भूते? श्रीमति
किं कर्तुम्? शासितुम्
किं शासितुम्? जगत्
कथं भूतः? श्रियः पतिः
पुनः कथं भूतः? जगन्निवासः

After analyzing all words, re-arrange them such that the meaning of the verse is easier to comprehend
जगन्निवासः श्रियः पतिः हरिः जगत् शासितुं श्रीमति वसुदेवसद्मनि वसन् अम्बराद् अवतरन्तं हिरण्यगर्भाङ्गभुवं मुनिं ददर्श

भूतकाले लट् due to 3-4-1 धातुसम्बन्धे प्रत्ययाः
Analysis of words

श्रियाः, श्रियः श्रियोः श्रीणाम्, श्रियाम्
श्रीशब्दःईकारान्तस्त्रीलिङ्गः षष्ठी एकवचनान्तः
Refer to श्रीशब्द forms in शब्दमञ्जरी

पतिः पती पतयः
पतिशब्दः इकारान्तपुँल्लिङ्गः प्रथमैकवचनान्तः
Refer to हरिशब्द forms in शब्दमञ्जरी. Also note शेषो घ्यसखि and पतिः समास एव

श्रीः अस्य अस्तीति श्रीमत्, तस्मिन् श्रीमति
श्रीमति श्रीमतोः श्रीमत्सु
श्रीमच्छब्दः तकारान्तनपुंसकलिङ्गः सप्तम्येकवचनान्तः
Refer to मरुच्छब्‌द forms in शब्दमञ्जरी

शासितुम् – अव्ययम्

जगत् जगती जगन्ति
जगच्छब्दः तकारान्तनपुंसकलिङ्गः द्वितीयैकवचनान्तः
जगत् is a प्रातिपदिकम् that denotes world and exists both in स्त्रीलिङ्गः and नपुंसकलिङ्गः and we need to determine which विभक्तिः and वचनम् are being used here. Firstly look at the usage
श्रियः पतिः जगत् शासितुं. It is pretty obvious that जगत् is the कर्म in this sentence and therefore has to be in द्वितीयैकवचनम् only.
The forms of जगत् in स्त्रीलिङ्गः are as
जगत् जगतौ जगतः
जगतम् जगतौ जगतः and so on. The द्वितीयैकवचनम् in स्त्रीलिङ्गः doesn't match the usage in this verse, so we can conclude that जगत् used here is indeed नपुंसकलिङ्गशब्दः only!

जगतां निवासः जगन्निवासः
जगन्निवासः जगन्निवासौ जगन्निवासाः
जगन्निवासशब्दः अकारान्तपुँल्लिङ्गः प्रथमैकवचनान्तः

वसुदेवस्य सद्म वसुदेवसद्म, तस्मिन् वसुदेवसद्मनि
वसुदेवसद्मनि वसुदेवसद्मनोः वसुदेवसद्मसु
वसुदेवसद्मन्शब्दः नकारान्तनपुंसकलिङ्गः सप्तम्येकवचनान्तः
Refer to धामन्शब्द forms in शब्दमञ्जरी

वसन् वसन्तौ वसन्तः
वसच्छब्दः तकारान्तपुंलिङ्गः प्रथमैकवचनान्तः
Refer to पचच्छब्द forms in शब्दमञ्जरी

ददर्श ददृशतुः ददृशुः
ददर्शिथ, दद्रष्ठ ददृशथुः ददृश
ददर्श ददृशिव ददृशिम
दृशिर् प्रेक्षणे धातोः कर्तरि लिटि प्रथमपुरषैकवचनम्

अवतरन्तम् अवतरन्तौ अवतरतः
अवतरच्छब्दः तकारान्तपुँल्लिङ्गः द्वितीयैकवचनान्तः
Refer to पचच्छब्द forms in शब्दमञ्जरी

अम्बरात् अम्बराभ्याम् अम्बरेभ्यः
अम्बरशब्दः अकरान्तनपुंसकलिङ्गः पञ्चम्येकवचनान्तः
Refer to ज्ञानशब्द forms in शब्दमञ्जरी

हिरण्यम् गर्भे यस्य स हिरण्यगर्भः, हिरण्यगर्भस्य अङ्गम् हिरण्यगर्भाङ्गम्, हिरण्यगर्भाङ्गाद् भवति इति हिरण्यगर्भाङ्गभूः, तं हिरण्यगर्भाङ्गभुवम्
हिरण्यगर्भाङ्गभुवम् हिरण्यगर्भाङ्गभुवौ हिरण्यगर्भाङ्गभुवः
हिरण्यगर्भाङ्गभूशब्दः ऊकारान्तपुँल्लिङ्गः द्वितीयैकवचनान्तः

मुनिम् मुनी मुनीन्
मुनिशब्दः इकारान्तपुँल्लिङ्गः द्वितीयैकवचनान्तः
Refer to हरिशब्द forms in शब्दमञ्जरी

हरिः हरी हरयः
हरिशब्दः इकारान्तपुँल्लिङ्गः प्रथमैकवचनान्तः
Refer to हरिशब्द forms in शब्दमञ्जरी

No comments:

Post a Comment