Tuesday, May 1, 2018

Hari smaranam -Sanskrit

*🌻हरिस्मरणम्🌻*

हरिस्मरणं रे हरिस्मरणम्,
कुरुत प्रभाते हरिस्मरणम्।

भवति देवालये घण्टानादः,
 करोति स्तोत्रगानमर्चकः।
विहगः कूजति मधुरं मधुरम्!
कुरुत प्रभाते हरिस्मरणम्।

समीरः वहति मन्दं मन्दम्,
विलसति विकसितं पुष्पम्।
कृषिकः गच्छति निजक्षेत्रम्।
कुरुत प्रभाते हरिस्मरणम्।

सफलं कर्तुं निजजीवनम्,
श्रमं विना नास्ति विकल्पम्।
श्रमेण सह कुरु हरिस्मरणम्,
कुरुत प्रभाते हरिस्मरणम्।

No comments:

Post a Comment