Tuesday, May 1, 2018

Miser - Sanskrit joke

Courtesy; Sri. Karthikeyan Madathil 

वसति स्म कस्मिन्श्चिद्ग्रामे देवदत्तो नाम कृपणः । सर्ददा धनव्ययं न्यूनीकर्तुमेव धनिकस्य तस्य प्रयत्न आसीत् ।

एकदा भोजनसमये स प्रतिवेशिनो गृहात् पचतां व्यञ्जननां सुगन्धम् अजिघ्रत् । सो$चिन्तयद् अहो कियान् सुगन्धो$यम् इति । झटिति अन्नम् आनीय विना व्यञ्जनेभ्यः तं गन्धं जिघ्रन्नेवाखादत्! तस्माद् दिनात् पश्चात् तस्य गृहे व्यञ्जनानि न पचन्ति स्म । प्रतिवेशिनो गृहाद् आगच्छन्तं पाचनसुगन्घंं जिघ्रन्नेव स खादति स्म ।

इदं श्रुत्वा यज्ञदत्तो नाम स एव प्रतिवेश्येकदा देवदत्तस्य गृहमागच्छत् । सो$पि किञ्चित्कृपण एवासीत् । कथ्यते समानस्वभाविनः समीप एव निवसन्तीति किल।

सो$वदत् देवदत्तं भो मित्र श्रूयते त्वं मम गृहादागच्छन्तं सुगन्धं जिघ्रन् खादसीति इति । आम् इत्यङ्गीकृतं एतद् देवदत्तेनापि । तदावदत् यज्ञदत्तस्तर्हि तस्य मूल्यमपि मे दीयताम् इति ।

तच्छ्रुत्वा चकितो$पि देवदत्तो गृहस्यान्तःकोष्ठे गत्वा नाणकानां गनणम् आरभत । तस्य चिल्चिलि्लति ध्वनिं श्रुत्वा संततुतोष यज्ञदत्तोपि ।

कस्माच्चन विलम्बात्पश्चाद् बहिरागत्य देवदत्तः पूर्वमिव उपाविशन् अन्यान् विषयान् वक्तुम् आरेभे । यज्ञदत्तः पुनरवदत्तम् मम सुगन्धस्य मे मूल्यं देहीति ।

देवदत्तो$वदत् मित्र तव गृहात् पाचनसुगन्धम् अहं अजिघ्रम् अपि च त्वं मम नाणकानां ध्वनिम् अश्रुणोत् किलेति । भोजनसुगन्धस्य मूल्यं नाणकध्वनिरूपेणाहम् अददाम् इति ।

तच्छ्रुत्वा तुष्णीमेव स्वगृहं न्यावर्तत यज्ञदत्तः 

😄😄😄😄😄😄😄😄

No comments:

Post a Comment