Monday, April 9, 2018

Ramodantam -Sanskrit

*श्रीरामोदन्दम्*
_अथ बालकाण्ड:_

*मूल श्लोक:*

*विभीषणो विष्णुभक्तिं वव्रे सत्वगुणान्वित: ।*
*तेभ्य एतान् वरान् दत्वा तत्रैवान्तर्दधे प्रभु: ॥५॥*


*पदविभाग:*

विभीषण: विष्णुभक्तिं वव्रे सत्वगुणान्वित: तेभ्य: एतान् वरान् दत्वा तत्रैव अन्तर्दधे प्रभु: 

*अन्वय:*
 सत्वगुणान्वित:      विभीषण: विष्णुभक्तिं वव्रे । तेभ्य: एतान् वरान् दत्वा प्रभु: तत्रैव अन्तर्दधे  ।

*तात्पर्यम्*

रावणस्य सहोदर: विभीषण: स: सत्वगुण सम्पन्न: आसीत् । स: विष्णुभक्तिं प्रार्थीतवान् । तेभ्य: (रावण: कुम्भकर्ण: विभीषण: )एतान् वरान् दत्वा ब्रह्मा तत्रैव अन्तर्दधे ।

*व्याकरणम्*
♦सन्धि:
विभीषण: + विष्णुभक्तिं - विसर्ग उकार:

अन्तर्दधे - अन्त: + दधे - विसर्गरेफ:

तेभ्य: + एतान् - विसर्गलोप:

♦समास:
सत्वगुणै: अन्वित: - तृतीयातत्पुरुष:

 दधे - *धा* आत्मनेपदि धातु:
लिट् लकार: प्रथमपुरुष: 

_दधे-दधाते- दधिरे_

वव्रिरे - *वृ* धातु: आत्मनेपदि लिट् लकार: प्रथमपुरुष:
_वव्रे - वव्राते - वव्रिरे_

🏹🏹🏹🏹🏹🏹

~ ✍ *शरवण:*

No comments:

Post a Comment