Monday, April 9, 2018

Sanskrit subhashitam

🖌सुभाषित-विज्ञानम् - 40📚
अन्नदानं महादानम् 

मूलम्- 
अन्नदानं महादानं विद्यादानमतः परम् ।
अन्नेन क्षणिका प्रीतिः यावज्जीवं च विद्यया ॥

पदविभागः- 
अन्नदानं महादानं विद्यादानम् अतः परम्। अन्नेन क्षणिका प्रीतिः यावत्-जीवं च विद्यया॥

अन्वयः- 
अन्नदानं महादानम्। अतः परं विद्यादानम् । अन्नेन प्रीतिः क्षणिका (भवति)। विद्यया च यावज्जीवम् (भवति)॥

प्रतिपदार्थः- 
अन्नदानं = खाद्यपदार्थस्य परेभ्यः वितरणम् ; giving/ distributing food (in charity eg. feeding the poor)
महादानम् = उत्तमं, उत्कृष्टं च प्रदानं ; great charity
अतः परम् = इतोऽप्यधिकम् ; even more
विद्यादानम् = ज्ञानस्य वितरणम् ; giving of knowledge (teaching)
अन्नेन = भक्ष्येण ; by food
क्षणिका = तत्क्षणे जायमाना ; momentary
प्रीतिः = आनन्दः, तृप्तिः ; happiness, satisfaction
विद्यया च = ज्ञानेन च ; by knowledge, learning
यावज्जीवम् = आजीवनम्, प्राणधारणकालं यावत् ; all life

तात्पर्यम्- 
भोज्यपदार्थस्य दानाद् अपि उत्तमं ज्ञानस्य दानमिति (तथ्यम्)। कुतः? खादनेन (बुभुक्षा शमनेन च) तात्कालिकी तृप्तिः जायते। परं तु विद्यार्जनेन (अज्ञाननाशः भवति, येन) शाश्वतानन्दः भवति।

Giving food is a great charity; but giving knowledge is a greater one. From the food we get momentary satisfaction. But from knowledge, it lasts the whole life.

प्रश्नाः- 
1. किं महादानम्?
2. ततः परं किम्?
3. ------ च विद्यया। (रिक्तं स्थानं पूरयत)। 
4. 'यावज्जीवं' इत्यत्र सन्धिः विभज्यताम्।
5. 'महादानम्' इत्यत्र समासविग्रहं वदत?
6. 'क्षणिका' इत्यस्य पदविश्लेषणं वदत?

No comments:

Post a Comment