चितळे मिठाईवाले अहं च - आवयोः दूरवाणीसम्भाषणम्
अहम् - ट्रिंग ट्रॉंग
चि.मि. - स्वागतम्, किमिच्छति भवान् ?
अहम् - किमपि मधुरमिच्छामि I
चिमि - लड्डुकानां कृते पिञ्जं १ नुदतु I
कुण्डलिकानां कृते २ नुदतु I
रसगोलकानां कृते ३ नुदतु I
अहम् - लड्डुकान् इच्छामि I
चिमि - चणकपिष्ट लड्डुकानां कृते १ नुदतु I
गोधूमचूर्णलड्डुकानां कृते २ नुदतु I
अहम् - चणकपिष्टलड्डुकान् इच्छामि I
चिमि - पादकिलोमितानां कृते १ नुदतु I
अर्धकिलोमितानां कृते २ नुदतु I
दशकिलोमितानां कृते ३ नुदतु I
मया अनवधानेन ३ नुत्तम् I
चिमि - भवान् भवतः गृहसंदेशं प्रेषयतु I
अहम् (भीत्या) - मया दूरवाणी अपि न कृता I
चिमि - भवतः भ्रात्रा कृता स्यात् I
अहम्- वयं षड् भ्रातरः I
ज्येष्ठेन सह वक्तुमिच्छति चेत् १ नुदतु I
द्वितीयेन सह वक्तुमिच्छति चेत् २
नुदतुI
तृतीयेन सह..
दूरवाणी स्थगिता एव I ☺😄
—@चिन्मय फडके
No comments:
Post a Comment