*🌳गुरु-शिष्य-संवादः🌳*
*शिष्यः* — प्रणमामि।
*गुरुः*— यशस्वी भव।
*शिष्यः* — किञ्चित् प्रष्टुं कामये।
*गुरुः*— पृच्छ वत्स!
*शिष्यः*— अधुनातने काले जना विविधैः रोगैः ग्रस्ता दृश्यन्ते। न पूर्वश्रुताः रोगाः पीडयन्ति जनान्। अस्य किं कारणम्?
*गुरुः*— तव प्रश्नः प्रासङ्गिकः। बहवः जनाः रोगग्रस्ताः दृश्यन्ते ननु! सत्यम्। किन्तु मनुष्यः स्वयमेव स्वपादोपरि कुठाराघातं करोति।
*शिष्यः* — नावगतम्। शङ्का -समाधानं करोतु कृपया।
*गुरुः*— शृणु अवधानेन। जनाः स्वार्थाय वृक्षकर्तनं कुर्वन्ति। जनैः अनेके यन्त्रागाराः स्थापिता। विविधानां यान्त्रिकोपकरणानाम् उपयोगः बहु प्रचलति। कृषिक्षेत्रे कीटनाशकानां बहुप्रयोगो भवति। अनेन जलमन्नभूमिश्च दूषितानि जातानि। तदर्थमेव जनाः रोगग्रस्ताः भवन्ति।
*शिष्यः* — बहुसमीचीनं समाधानं दत्तम्। पुनः नमामि।
*गुरुः*— तथास्तु।
No comments:
Post a Comment