Courtesy: Sri Shreyas mohan
🌺अडागम-युक्त-लकारेषु उपसर्गाणां योजनम्।🌺
💐
केचन लकाराः अडागमं स्वीकुर्वन्ति। तत्र उपसर्गयोजनं क्लेशाय इति बहवः मन्यन्ते। तस्य सरलतया साधनाय उपायः अत्र प्रस्तूयते।
उपसर्गाः २२ भवन्ति। (दुस्-दुर्, निस्-निर्- इत्यनयोः सम्मेलनेन २० एव।) तेषामन्तं पश्यतु।
अकारः, आकारः, इकारः, उकारः, व्यञ्जनम्- एवं चतुर्धा भवति।
ततः धातोः प्रारम्भाक्षरं पश्यतु। अत्र व्यञ्जनेन प्रारभमाणस्य धातोः उदाहरणं दीयते। यथा व्यञ्जनेनारब्धस्य धातोः अडागमः भवति, तदानीं स अकारः धातोः पूर्वं युज्यते। ततः पूर्वं च उपसर्गः। अतः उपसर्गान्तेन अडागमः यदा संयुज्यते, तदा एवं भवति--
🍁
अकारान्ताः उपसर्गाः-- प्र, अप, अव, उप ; (+ अ =दीर्घः भवति।)
आकारान्ताः उपसर्गाः -- परा, आ (आङ्) ; (+ अ =दीर्घः भवति।)
इकारान्ताः उपसर्गाः -- नि, अधि, अपि, वि, अति, अभि, प्रति, परि ; (+ अ =य(ण्) भवति।)
उकारान्तौ उपसर्गौ -- अनु, सु ; (+ अ =व (यण्) भवति।)
व्यञ्जनान्ताः उपसर्गाः -- सम्, निस्-निर्, दुस्-दुर्, उत्/उद् ; (+ अ =अ भवति।)
💥
उदा- गम्-धातुः। लङ्-लकारः। प्रथमपुरुषैकवचनम्। 'अगच्छत्' इति।
🍀
तस्य उपसर्गयुक्तानि रूपाणि पश्यामः। (एतानि सर्वाणि एवंरूपेण लोके न सन्ति। केवलमुदाहरणतया रूपाणां प्रदर्शनाय एवं कृतम्।)--
🌸
प्र + अ = प्रा ॥ प्रा + गच्छत् = प्रागच्छत्
परा + अ = परा ॥ परा + गच्छत् = परागच्छत्
अप + अ = अपा ॥ अपा + गच्छत् = अपागच्छत्
सम् + अ = सम ॥ सम + गच्छत् = समगच्छत्
अनु + अ = अन्व ॥ अन्व + गच्छत् = अन्वगच्छत्
अव + अ = अवा ॥ अवा + गच्छत् = अवागच्छत्
निर् + अ = निर (निस् इतस्य निर् इति भवति) ॥ निर + गच्छत् = निरगच्छत्
दुर् + अ = दुर (दुस् इतस्य दुर् इति भवति) ॥ दुर + गच्छत् = दुरगच्छत्
वि + अ = व्य ॥ व्य + गच्छत् = व्यगच्छत्
आ (आङ्) + अ = आ ॥ आ + गच्छत् = आगच्छत्
नि + अ = न्य ॥ न्य + गच्छत् = न्यगच्छत्
अधि + अ = अध्य ॥ अध्य + गच्छत् = अध्यगच्छत्
अपि + अ = अप्य ॥ अप्य + गच्छत् = अप्यगच्छत्
अति + अ = अत्य ॥ अत्य + गच्छत् = अत्यगच्छत्
सु + अ = स्व ॥ स्व + गच्छत् = स्वगच्छत्
उत् /उद् + अ = उद ॥ उद + गच्छत् = उदगच्छत्
अभि + अ = अभ्य ॥ अभ्य + गच्छत् = अभ्यगच्छत्
प्रति + अ = प्रत्य ॥ प्रत्य + गच्छत् = प्रत्यगच्छत्
परि + अ = पर्य ॥ पर्य + गच्छत् = पर्यगच्छत्
उप + अ = उपा ॥ उपा + गच्छत् = उपागच्छत्
🌻
तथैव भूधातोरपि।
प्राभवत्, पराभवत्, अपाभवत्, समभवत्, अन्वभवत्, अवाभवत्, निरभवत्, दुरभवत्, व्यभवत्, आभवत्, न्यभवत्, अध्यभवत्, अप्यभवत्, अत्यभवत्, स्वभवत्, उदभवत्, अभ्यभवत्, प्रत्यभवत्, पर्यभवत्, उपाभवत्।🎀
एवमेव अन्ये द्रष्टव्याः।🙏
इति शम्।🌹
No comments:
Post a Comment