Courtesy: Sri.Acharya aravind pandey
हरि ॐ तत्सत्! सुप्रभातम्।
भवतु सदा मङ्गलम्।
नमस्सर्वेभ्यः ।🙏
सर्वेषां कृते मङ्गलकामना क्रियते मया, यद्भवन्तः सर्वे जनाः सानन्दं भगवत्प्रीतये पुरुषार्थं परमार्थं च कुर्वन्तः जीवनं जीवन्तु। अस्मिन्सन्दर्भे श्रीरामचरितमानसे उत्तरकाण्डे वर्णितम्-
"परहित सरिस धर्म नहिं भाई।
पर पीड़ा सम नहिं अधमाई।।"
तथैव
"अष्टादसपुराणेषु व्यासस्य वचनद्वयम्।
परोपकाराय पुण्याय पापाय परपीडनम्।।"
अस्मिँल्लोके परोपकारिणः कदापि दुःखिनो न भवन्ति। ते भगवत्कृपया सर्वविधसुसम्पन्नाः चिरजीविनो भूत्वा सानन्दं लोककल्याणं कुर्वन्तो विचरन्ति। सत्यमेवोक्तं श्रीरामचरितमानसे अरण्यकाण्डे-
परहित बस जिनके मन माहीं।
तिन्ह कहुँ जग दुर्लभ कछु नाहीं।।
अत एव स्व-सामर्थ्यानुसारेण निष्कामभावेन प्रीतिपूर्वकं परोपकारं कुर्यात्सदैव।
।। सत्यसनातनधर्मो विजयतेतराम् ।।
No comments:
Post a Comment